SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ CARREARRCARRC विशेषेणोलय न धर्मोऽधर्मः, नञ् विपक्षेऽपि वर्तते इति धर्मप्रतिपक्षः, तं-हिंसादिकं 'प्रतिपद्य' अभ्युपगम्य || | 'बालः' अभिहितरूपो मरणं-मृत्युस्तस्य मुखमिव मुखं मृत्युमुख-मरणगोचरं 'प्राप्तो' गतः, किमित्याह-अक्षे भग्न इव | शोचति, किमुक्तं भवति ?-यथा-अक्षभङ्गे शाकटिकः शोचति तथाऽयमपि खकृतकर्मणामिहैव मारणान्तिकवेद-2 ४ानात्मकं फलमनुभवन्नात्मानमनुशोचति, यथा हा किमेतज्जानताऽपि मयैवमनुष्ठितमिति सूत्रार्थः ॥ १५॥ शोचना-13 नन्तरं च किमसौ करोतीत्याह तओ से मरणंतंमि, बाले संतस्सई भया। अकाममरणं मरई, धुत्ते वा कलिणा जिए ॥१६॥ व्याख्या-तत'इत्यातकोत्पत्ती यच्छोचनमुक्तं तदनन्तरं 'से' इति स मरणमेवान्तो मरणान्तस्तस्मिन् , उपस्थित इति शेषः, 'बालो' रागाद्याकुलितचित्तः 'संत्रस्यति' समुद्विजते विभेतीतियावत् , कुतः ?-'भयात् ' नरकगतिग-8 मनसाध्वंसाद् , अनेनाकामत्वमुक्तं, स च किमेवं विभ्यत् मरणाद्विमुच्यते ? उत नेत्याह-अकामस्य-अनिच्छतो मरणमकाममरणं तेन, सूत्रे चार्फत्वाद्वितीया, 'म्रियते' प्राणांस्त्यजति, क इव कीदृशः सन् ?-'धूर्त इव' द्यूतकार इव, वाशब्दस्योपमार्थत्वात् , 'कलिना' एकेन, प्रक्रमात् दायेन, जितः सन्नात्मानं शोचति, यथा ययमेकेन दायेन जितः सन्नात्मानं शोचति तथाऽसावपीत्वरैर्विपाककटुभिः सङ्क्लेशबहुलैर्मनुज भोगैर्दिव्यसुखं हारितः शोचन्नेव म्रियत इति सूत्रार्थः ॥ १६॥ प्रस्तुतमेवार्थ निगमयितुमाह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy