SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ लिङ्गव्यत्ययेनोत्पत्तिस्थानानि घटिकालयादीनि येष्वतिसंपीडिताङ्गा दुःखमाकृष्यमाणाः बहिनिष्क्रामन्ति जन्तवः, यद्वा नरके-रत्नप्रभादिनरकपृथिव्यात्मके स्थानानि-सीमन्तकाप्रतिष्ठानादीनि कुम्भीवैतरण्यादीनि वा, अथवा स्थानानिसागरोपमादिस्थित्यात्मकानि, तत्किमियताऽपि परितप्यत इत्यत आह–'अशीलानाम्' अविद्यमानसदाचाराणां या| गतिर्नरकात्मिका सा च श्रुतेति सम्बन्धः, कीदृशानाम् ?-'बालानाम्' अज्ञानां 'क्रूरकर्मणां हिंस्रमृषाभाषकादीनां, कीदृशी गतिरित्याह-प्रगाढा नामात्युत्कटतया निरन्तरतया च प्रकर्षवत्यो 'यत्र' यस्यां गतौ वेद्यन्त इति वेदना शीतोष्णशाल्मल्याश्लेषणादयः, तदयमस्याशयः-ममैवंविधानुष्ठानस्येदृश्येव गतिरिति सूत्रार्थः ॥ १२ ॥ तथा तत्थोववाइयं ठाणं, जहा मे तमणुस्सुयं । आहाकम्मेहिं गच्छन्तो, सो पच्छा परितप्पति ॥ १३ ॥ | व्याख्या-तत्रे'ति नरकेषु उपपाते भवमोपपातिकं 'स्थान स्थितिः 'यथा' येन प्रकारेण, भवतीति शेषः, 'मे' |मया तदित्यनन्तरोक्तपरामर्श 'अनुश्रुतम्' अवधारितं, गुरुभिरुच्यमानमिति शेषः, औपपातिकमिति च ब्रुवतोऽस्यायमाशयः-यदि गर्भजत्वं भवेत् भवेदपि तदवस्थायां छेदभेदादिनारकदुःखान्तरम् , औपपातिकत्वे त्वन्तर्मुहूर्तानन्तरमेव तथाविधवेदनोदय इति कुतस्तदन्तरसम्भवः ?, तथा च–'आहाकम्मेहिंति आधानमाधाकरणम् , || आत्मनेति गम्यते, तदुपलक्षितानि कर्माण्याधाकर्माणि, तैः आधाकर्मभिः-खकृतकर्मभिः, यद्वाऽऽपत्वात् , 'आहेति' आधाय कृत्वा, कर्माणीति गम्यते, ततस्तैरेव कर्मभिः 'गच्छन् ' यान् , प्रक्रमान्नरकं, यद्वा-'यथाक Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy