SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ घाताय, माजिष्टे हरणं गवाम् । अव्यक्तवर्ण कुरुते, बलक्षोभं न संशयः ॥ १॥ गन्धर्वनगरं स्निग्धं, समाकारं सतो-४ रणम् । सौम्या दिशं समाश्रित्य, राज्ञस्तद्विजयङ्करम् ॥ २॥” इत्यादि । तथा 'ख' खप्नगतं शुभाशुभकथनं, यथा-"गायने रोदनं ब्रूयान्नतने वधबन्धनम् । हसने शोचनं ब्रूयात्पठने कलहं तथा ॥१॥" इत्यादि । तथा 18'लक्षणं' स्त्रीपुरुषयोर्यथा-"चक्खुसिणेहे सुहितो दंतसिणेहे य भोयणं मिहें। तयणेहेण य सोक्खं णहणेहे होइ परम-18 धणं ॥१॥" इत्यादि, गजादीनां च यथायथं वालुकाँप्यादिविहितम् । तथा 'दंड'त्ति 'दण्डः' यष्टिस्तत्वरूपकथनम् , “एकैपवं पसंसंति, दुपवा कलहकारिय"त्ति, इत्यादि । तथा 'वास्तुविद्या' प्रासादादिलक्षणाभिधायिशास्वात्मिका “कुटिला भूमिजाश्चैव, वैनीका द्वन्द्वजास्तथा । लतिनो नागराश्चैव, प्रासादाः क्षितिमण्डनाः ॥१॥ सूक्ताः पदविभागेन, कर्ममार्गेण सुन्दराः। फलावाप्तिकरा लोके, भङ्गभेदयुता विभोः ॥२॥ अण्डकैस्तु विविक्तास्ते, निर्गमैश्चारुरूपकैः । चित्रपत्रविचित्रैश्च, विविधाऽऽकाररूपकैः॥३॥” इत्यादि । तथा 'अङ्गविकारः' शिरःस्फुरणादिस्तच्छुभाशुभसूचकं शास्त्रमप्यङ्गविकारो यथा 'दक्षिणाक्षिस्पन्दने प्रियं भविष्यती'त्यादि । तथा खरः-पोदकीशिवादिरुतरूपस्तस्य विषयः-तत्सम्बन्धी शुभाशुभनिरूपणाभ्यासः, यथा-"गतिस्तारा खरो वामः, पोदक्याः १ चक्षुःस्नेहेन सुखितो दन्तस्नेहेन च भोजनमिष्टम् । त्वक्स्नेहेन च सौख्यं नखस्नेहेन भवति परमधनम् ॥ १॥ पालकादिविहितं प्र. २ एकपर्वा प्रशंसन्ति द्विपर्वा क्लेशकारिणी। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy