________________
उत्तराध्य.
बृहद्वृत्तिः
॥४१७॥
शुभदः स्मृतः । विपरीतः प्रवेशे तु स एवाभीष्टदायकः ॥ १ ॥ " तथा " दुर्गाखरत्रयं स्याज्ज्ञातव्यं शाकुनेन नैपु - |ण्यात् । चिलिचिलिशब्दः सफलः सुसु मध्यश्चलचलो विफलः ॥ १ ॥" इत्यादि । ततो य एताभिर्विद्याभिर्न जीवति नैता एव जीविकाः शुभाशुभाः प्रकल्प्य प्राणान् धारयति स भिक्षुरिति सूत्रार्थः ॥ अनेन निमित्तलक्षणोत्पादनादोषपरिहार उक्तः, सम्प्रति मन्त्रादिरूपतद्दोषपरिहारायाह -
मंतं मूलं विविहं विज्जचिंतं, वमणविरेयणधूम नित्तसिणाणं । आउरे सरणं तिगिच्छ्रियं च तं परिन्नाय परिव्वए स भिक्खू ॥ ८ ॥
'मत्रम्' ॐकारादिखाहापर्यन्तो ही कारादिवर्णविन्यासात्मकस्तं, 'मूलं' सहदेवीमूलिकाकल्पादि तत्तच्छात्र| विहितं मूलकर्म वा 'विविधं' नानाप्रकारं 'वैद्यचिन्तां ' वैद्यसम्वन्धिनीं नानाविधौषधपथ्यादिव्यापारात्मिकां विविधामित्यत्रापि डमरुकमणिन्यायेन योज्यते, वमनम् - उद्भिरणं विरेचनं-कोष्ठशुद्धिरूपं धूमं - मनः शिलादिसम्बन्धि नेति - नेत्रशब्देन नेत्र संस्कारकमिह समीराञ्जनादि परिगृह्यते, स्नानम् - अपत्यार्थ मन्त्रौषधिसंस्कृतजलाभिषेचनं, | वमनादीनां च स्नानावसानानामिह कृतसमाहाराणां निर्देशः, 'आउरे सरणं'ति, सुब्व्यत्ययाद् 'आतुरस्य' रोगा| दिपीडितस्य 'शरणं' स्मरणं हा तात ! हा मातः ! इत्यादिरूपं 'चिकित्सितं च' आत्मनो रोगप्रतीकाररूपं 'तद्' इति
Jain Education International
For Personal & Private Use Only
सभिक्षुक
मध्ययनं .
१५
॥४१७॥
www.jainelibrary.org