________________
SAHAKAR
उत्तराध्य. क्खुत्ति' यत्तदोर्नित्याभिसम्बन्धाद्य एवंविधः स भिक्षुः, अनेन सिंहतयैव विहरणं भिक्षुत्वनिवन्धनमुक्तमिति सभिक्षुक
सूत्रार्थः ॥ तच्च सिंहतया विहरणं यथा स्यात्तथा विशेषत आहबृहद्वृत्तिः
मध्ययनं. राओवरयं चरिज लाढे, विरए वेदवियाऽऽयरक्खिए। ॥४१४॥
पन्ने अभिभूय सव्वदंसी, जे कम्हिवि न मुच्छिए स भिक्खू ॥२॥ रागः-अभिष्वङ्गः उपरतो-निवृत्तो यस्मिंस्तद्रागोपरतं यथा भवत्येवं 'चरेद्' विहरेत् , क्तान्तस्य परनिपातः | प्राग्वत् , अनेन मैथुननिवृत्तिरुक्ता, रागाविनाभावित्वान्मैथुनस्य, यद्वाऽऽवृत्तिन्यायेन 'रातोवरय'ति राज्युपरतं । 'चरेत्' भक्षयेदित्यनेनैव रात्रिभोजननिवृत्तिरप्युक्ता, 'लाढे'त्ति सदनुष्ठानतया प्रधानो विरतः-असंयमानिवृत्तः, अनेन च संयमस्याक्षेपात्प्राणातिपातनिवृत्तिः सावधवचननिवृत्तिरूपत्वाद्वाक्संयमस्य मृषावादनिवृत्तिश्चाभिहिता वेदितव्या, वेद्यतेऽनेन तत्त्वमिति वेदः-सिद्धान्तस्तस्य वेदनं वित्तया आत्मा रक्षितो-दुर्गतिपतनात्रातोऽनेनेति वेदविदात्मरक्षितः, यद्वा वेदं वेत्तीति वेदवित् , तथा रक्षिता आयाः-सम्यग्दर्शनादिलाभा येनेति रक्षितायः, रक्षि
॥४१४॥ है तशब्दस्य परनिपातः प्राग्वत् , 'प्राज्ञः' हेयोपादेयबुद्धिमान् 'अभिभूय' पराजित्य परीषहोपसर्गानिति गम्यते, 'सर्व'
समस्तं गम्यमानत्वात्प्राणिगणं पश्यति-आत्मवत्प्रेक्षत इत्येवंशीलः, अथवाऽभिभूय रागद्वेषौ सर्व वस्तु समतया
SERIALSEX
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org