SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ || पश्यतीत्येवंशीलः सर्वदर्शी, यदिवा सर्व दशति-भक्षयतीत्येवंशीलः सर्वदंशी, उक्तं हि-"पंडिग्गहं संलिहिता णं, लेवमायाऍ संजए । दुग्गंधं वा सुगंधं वा, सवं मुंजे ण छड्डए ॥१॥" अत एव यः कस्मिंश्चित्सचित्तादिवस्तुनि न माञ्छितः-प्रतिबद्धः, एतेन परिग्रहे निवृत्तेरभिधानमप्रतिवद्धश्च कथमदत्तमाददीत ? इत्यदत्तादाननिवृत्तेश्च, तथा च सय एवं मूलगुणान्वितः स भिक्षुरित्युक्तं भवतीति सूत्रार्थः ॥ अन्यच अक्कोसवहं विदित्तु धीरे, मुणी चरे लाढे निच्चमायगुत्ते।। अव्वग्गमणे असंपहिहे, जो कसिणं अहिआसए स भिक्खू ॥३॥ आक्रोशनमाक्रोश:-असभ्यालापो वधो-घातस्ताडनं वा, अनयोः समाहारद्वन्द्वे आक्रोशवधं तद्विदित्वा खकृत5 कर्मफलमेतदिति मत्वा 'धीरः' अक्षोभ्यः सम्यक् सोढेतियावत् 'मुनिः' यतिः 'चरेत्' पर्यटेद् अनियतविहारतयेति 3 गम्यते, ततश्चानेनाक्रोशवधचर्यापरीषहसहनमुक्तं, 'लाढे'त्ति प्राग्वत् , 'नित्यम्' इति सदा 'आत्मा' शरीरम् , आत्मशब्दस्य शरीरवचनस्यापि दर्शनात्, उक्तं हि-“धर्मधृत्यग्निधीन्द्वकत्वक्तत्त्वखार्थदेहिषु । शीलानिलमनोयन-2 कवीर्येष्वात्मनः स्मृतिः ॥१॥” इति, तेन गुप्त आत्मगुप्तो-न यतस्ततः करणचरणादिविक्षेपकृत्, यद्वा गुप्तो रक्षितोऽसंयमस्थानेभ्य आत्मा येन स तथा, अव्यग्रम्-अनाकुलमसमञ्जसचिन्तोपरमतो मनः-चित्तमस्येत्यव्य१ पतदहं संलिख्य लेपमात्रया संयतः । दुर्गन्धि वा सुगन्धं वा सर्व भुङ्क्ते न त्यजति ॥ १॥ Jain Education Intematonal For Personal & Private Use Only ALLinelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy