________________
मोणं चरिस्सामि समिच्च धम्म, सहिए उज्जुकडे नियाणछिन्ने । संथवं जहिज अकामकामे, अन्नायएसी परिव्वए स भिक्खू ॥१॥
*****
ORAHASTOSSASSISK
है मुनेः कर्म मौनं तच्च सम्यक्चारित्रं 'चरिस्सामो'त्ति सूत्रत्वात् चरिष्यामि-आसेविष्ये इत्यभिप्रायेणेत्युपस्कारः,
समेत्य' प्राप्य 'धर्म' श्रुतचारित्रभेदं दीक्षामित्युक्तं भवति, ‘सहितः' सम्यग्दर्शनादिभिरन्यसाधुभिर्वेति गम्यते, खस्मै हितः खहितो वा सदनुष्ठानकरणतः, कश्चैवम् ?-ऋजुः-संयमस्तत्प्रधानं ऋजु वा-मायायागतः कृतम्-अनुष्ठानं यस्येति ऋजुकृतः, ईदृक्क इत्याह-निदानं-विषयाभिष्वङ्गात्मकं, यदिवा' 'निदान बन्धने' ततश्च करणे ल्युत्, नि-181 दान-प्राणातिपातादिकर्मबन्धकारणं छिन्नम्-अपनीतं येन स तथा, क्तान्तस्य परनिपातः प्राग्वत्प्राकृतत्वात् , छिन्न-1 निदानो वा अप्रमत्तसंयत इत्यर्थः, 'संस्तवं' पूर्वसंस्तुतैर्मात्रादिभिः पश्चात्संस्तुतैश्च श्वश्वादिभिः परिचयं 'जह्यात्' त्यजेत् , 'शकि च लिङ्' ( शकि लिङ् च पा-३-३-१७३) इत्यनेन शक्याथै लिङ्, ततः संस्तवं हातुं शक्तो य इति, एवं लिङर्थभावना सर्वत्र कार्या,तथा कामान्-इच्छाकाममदनकामभेदान् कामयते-प्रार्थयते यः स कामकामो न तथा अकामकामः, यद्वाऽकामो-मोक्षस्तत्र सकलाभिलाषनिवृत्तेस्तं कामयते यः स तथा, अत एव अज्ञातः-तपखितादिभिर्गुणैरनवगतः एषयते-ग्रासादिकं गवेषयतीत्येवंशीलोऽज्ञातैपी परिव्रजेद्' अनियतविहारितया विहरेत् ‘स भि
*5555555
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org