SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ सभिक्षुक. मध्ययनं. | १५ उत्तराध्य. परिग्रहः, भवन्तीति सर्वापेक्षं बहुवचनम् । 'साधुः' तपखी 'कर्म' ज्ञानावरणादि 'अष्टविधम्' अष्टप्रकारं 'तपश्च अनशनादि भावे विचार्ये भेत्ता भेत्तव्यं भेदनं च क्रमेण ज्ञातव्यम् । इत्थं 'जो भिंदई खुहं खलु' इति ग्रहणकवाक्यं बृहद्वृत्तिः गतं, भिनत्तीति व्याख्याय क्षुधं व्याख्यातुमाह-'रागद्वेषौ' उक्तरूपौ 'दण्डाः' मनोदण्डादयो 'योगाः'करणकारणानुम॥४१३॥ तिरूपाः, पठन्ति च-'रागद्दोसा छुहं दंडा' अत्र च 'छुहं तिक्षुध-बुभुक्षा उच्यते, तथा 'गौरवाणि च' ऋद्धिगौरवादीनि 'शल्यानि च' मायाशल्यादीनि 'विकथाः'स्त्रीकथादयः सज्ञाः आहारसज्ञादयः, खुहंति एतद्भावभावित्वादष्टविधकमरूपायाः क्षुधः एतान्यपि क्षुदित्युच्यन्ते, प्राकृतत्वाच्च नपा निर्देशः, 'कषायाः' क्रोधादयः 'प्रमादाश्च' मद्यादयः क्षुदिति सम्बन्धनीयमिति गाथात्रयार्थः ॥ उपसंहर्तुमाह एयाइं तु खुहाई जे खलु भिंदंति सुबया रिसओ। ते भिन्नकम्मगंठी उविंति अयरामरं ठाणं ३७९/ al 'एतानि' रागादीनि 'खुहाई ति क्षुच्छब्दवाच्यानि ये खलु 'भिंदंति' विदारयन्ति, खलुशब्द एवकारार्थो भिन्द न्येवेति शोभनानि अनतिचारतया व्रतानि-प्राणातिपातविरत्यादीनि येषां ते सुव्रताः 'ऋषयः' मुनयः,ते किमित्याह- विभिन्नः कर्मैवातिदुर्भेदतया ग्रन्थिः कर्मग्रन्थियैस्ते तथाविधाः 'उपयान्ति' प्राप्नुवन्ति 'अजरामरं स्थानं' मुक्तिपद मिति गाथार्थः॥ उक्तो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् R-SOURCESSACROCOCC ॥४१३॥ For Personal & Private Use Only Jan Education International www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy