________________
शब्दात्सरजस्कादिषु चान्यतरो विवक्षित इति गम्यते, द्रव्यत्वं चास्स रागादिलक्षणक्षुद्देत्तृत्वाभावात् , भावभिक्षुमाह-यो भिनत्ति' विदारयति क्षुधं 'खलुः' अवधारणे भिन्नक्रमश्च, ततः स एव भिक्षुर्भावतो भवतीति गाथा-15 द्वयार्थः ॥ इह च भिनत्तीत्युक्तमतः कर्तृकरणकर्मभिः प्रयोजनं, सकर्मकत्वाद्भिदेः, अत आह
भेत्ता य भेअणं वा नायवं भिंदियवयं चेव । इकिकपि अ दुविहं दवे भावे अ नायवं ॥ ३७६ ॥ रहकारपरसुमाई दारुगमाई अ दवओ हुंति। साहू कम्मष्टविहं तवो अ भावंमि नायवो ॥३७७॥
रागदोसा दंडा जोगा तह गारवा य सल्ला य। विगहाओ सण्णाओ खुहं कसाया पमाया य ॥३७८॥ | भत्ता च कर्त्ता यो भिनत्ति, भेदनं करणं येन भिनत्ति 'वा' समुच्चये 'ज्ञातव्यं' बोद्धव्यं भेत्तव्यमेव भेत्तव्यकं । कर्म यद्भिद्यते, 'चः' समुच्चये, 'एव' इति पूरणे, 'एकैकमपि चेति भेत्ता भेदनं भेत्तव्यकं च 'द्विविधं' विभेदं शा द्रव्ये भावे च विचार्यमाणे 'ज्ञातव्यम्' अवगन्तव्यं । तत्र द्रव्ये रहगारपरसुमाइ'त्ति आदिशब्दस्य प्रत्येकमभिसम्बन्धाद् रथकारः-तक्षकस्तदादिद्रव्यतो भेत्ता, आदिशब्दादयस्कारादिपरिग्रहः, परशुः-कुठारस्तदादिव्यतो भेदनम्, आदिशब्दाद् घनादयो गृह्यन्ते, 'दारुगमाई यत्ति दारुक-काष्ठं तदादि च द्रव्यतो भेद्यम् , आदिशब्दालोहादि
Jain Education Intertonal
For Personal & Private Use Only
www.jainelibrary.org