________________
तदिदमेवास्तु, भुङ्क्ष भोगान् मया 'समाणं'ति सह 'दुःख'मिति दुःखहेतुः 'खु' इति खलु निश्चितं 'भिक्षाचर्या' | भिक्षाटनं 'विहारः' प्रामादिष्वप्रतिबद्धविहारो, दीक्षोपलक्षणं चैतदिति सूत्रार्थः ॥ पुरोहित आह
जहा य भोई ! तणुयं भुयंगे, निम्मोअणि हिच पलाइ मुत्तो। एमेऍ जाया पजहंति भोए, तेऽहं कहं नाणुगमिस्समिको ? ॥ ३४ ॥ छिदित्तु जालं अबलं व रोहिया, मच्छा जहा कामगुणे पहाय ।
धोरेयसीला तवसा उदारा, धीरा हु भिक्खायरियं चरंति ॥ ३५ ॥ || यथा हे भवति ! पठ्यते च-भोगि'त्ति हे भोगिनि! तनुः-शरीरं तत्र जातां तनुजां 'भुजङ्गमः' सर्पः 'निर्मो-81
चनी' निर्मोकं हित्वा 'पर्येति' समन्ताद्गच्छति 'मुक्तः' इति निरपेक्षोऽनभिष्वक्त इत्यर्थः, ‘एमेए'त्ति एवमेतो, पठ्यते च 'इमेति'त्ति अत्र च तथेति गम्यते, ततस्तथेमौ 'ते' तव 'जाती' पुत्रौ 'पजहंति' प्रजहीतः प्रकर्षण त्यजतो |भोगान् , ततः किमित्याह-ती भोगांस्त्यजन्तौ जातौ अहं कथं न 'अनुगमिष्यामि' प्रव्रज्याग्रहणेनानुसरिष्यामि 'एकः' अद्वितीयः ? । यदि तावदनयोः कुमारकयोरपीयान् विवेको यन्निर्मोकवदत्यन्तसहचरितानपि भोगान् भुजङ्गबत्त्यजतस्तत्किमिति भुक्तभोगोऽप्यहमेतान्न त्यक्ष्यामि ?, किं वा ममासहायस्य गृहवासेनेति भावः। तथा 'छित्त्वा' द्विधाकृत्वा तीक्ष्णपुच्छादिना 'जालम् आनायम् 'अवलमिव' जीर्णत्वादिना निःसारमिव, बलीयोऽपीति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org