SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ इति खगृहवर्त्तिनः तान् प्रत्यक्षतया निर्दिशति, 'ते' तव तथा 'संपिण्डिताः' सम्यक्पुञ्जीकृताः 'अग्गरस' त्ति चशउदस्य गम्यमानत्वादय्या रसाश्च - प्रधाना मधुरादयश्च प्रभूताः - प्रचुराः, कामगुणान्तर्गतत्वेऽपि रसानां पृथगुपादानमतिगृद्धिहेतुत्वाच्छन्दादिष्वपि चैषामेव प्रवर्त्तकत्वात्, कामगुणविशेषणं वा अग्र्या रसास्त एव शृङ्गारादयो वा येषु ते तथा वृद्धास्त्वाहुः - रसानां - सुखानामयं रसायं ये कामगुणाः, सूत्रे च प्राकृतत्वादग्रशब्दस्य पूर्वनिपातः, 'भुंजामो' ति भुञ्जीमहि 'तत्' तस्मादमी सुसंभृतादिविशेषणविशिष्टास्ते च खाधीनाः सन्ति, 'कामगुणान्' उक्तरूपान् 'प्रकामम्' अतिशयेन, ततो भुक्तभोगाः 'पश्चाद्' इति वृद्धावस्थायां 'गमिष्यामः' प्रतिपत्स्यामहे 'प्रधानमार्ग' महापुरुषसेवितं प्रव्रज्यारूपं मुक्तिपथमिति सूत्रार्थः ॥ पुरोहितः प्राह - भुत्ता रसा भोइ ! जहाइ णे वओ, न जीवियट्ठा पजहामि भोए । लाभं अलाभं च सुहं च दुक्खं, संचिक्खमाणो चरिसामि मोणं ॥ ३२ ॥ 'भुक्ताः' सेविताः 'रसाः' मधुरादयः, उपलक्षणत्वाच्छेषकामगुणाश्च यद्वा रसा इह सामान्येनैवास्वाद्यमानत्वाद्भोगा भण्यन्ते 'होति'त्ति हे भवति !, आमन्त्रणवचनमेतत्, 'जहाति' त्यजति 'नः' इत्यस्मान् वयः शरीरावस्था कालकृतोच्यते सा चेहाभिमतक्रियाकरणक्षमा गृह्यते, ततश्च यतो भुक्ता एवानेकशो भोगा वयश्चाभिमत| क्रियाकरणक्षमं जहाति, उपलक्षणत्वाज्जीवितं च ततो यावन्नैतत्त्यजति तावदीक्षां प्रतिपद्यामह इत्यभिप्रायः, Jain Education onal For Personal & Private Use Only ainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy