SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. इषुकारीयमध्ययनं. बृहद्वत्तिः ॥४०५॥ COMICROSSESSAGROGRE उपलक्षण चैतद व्रतग्रहणस्य कालः-प्रस्तावो वर्तत इति शेषः किमित्येवमत आह-शाखाभि प्रतीताभिः द्रुमः 'लभते' प्राप्नोति 'समाधि' स्वास्थ्यं, 'छिन्नाभिः' द्विधाकृताभिः शाखाभिः 'तमेव' वृक्षं यस्ताभिः समा-| धिमाप्तवान् ‘खाणुंति स्थाणुं जनोऽप्युपदिशतीत्युपस्कारः, यथा हि तास्तस्य शोभासंरक्षणसहायकृत्यकरणादिना ४ समाधिहेतवः एवं ममाप्येतौ सुतावतस्तद्विरहितोऽहमपि स्थाणुकल्प एवेति किं ममैवंविधस्य खपरयोः कश्चिदुपकारमपुष्णत एव गृहवासेनेत्यभिप्रायः । किञ्च-पक्षाभ्यां-पतत्राभ्यां विहीनो-विरहितः पक्षविहीनः, 'वा' दृष्टान्तान्तरसमुच्चये, यथा 'इह' अस्मिल्लोके 'पक्षी विहङ्गमः पलायितुमप्यशक्त इति मार्जारादिभिरभिभूयते । भृत्याः-पदातयस्तद्विहीनो, वा प्राग्वत् , 'रणे' सङ्ग्रामे 'नरेन्द्रः' राजा शत्रुजनपराजयस्थानमेव जायते, तथा विपन्नःविनष्टः सारो-हिरण्यरत्नादिरस्येति विपन्नसारो वणिक सांयात्रिको, वेति प्राग्वत् , 'पोते' प्रवहणे भिन्न इति गम्यते| नार्वाग् न च परत इत्युदधिमध्यवर्ती विषीदति, पुत्रप्रहीणोऽस्मि तथाऽहमपि, कोऽर्थः-पक्षभृत्यार्थसारभूताभ्यां सुताभ्यां विरहितोऽहमप्येवंविध एवेति सूत्रद्यार्थः ॥ वाशिष्टयाह सुसंभिया कामगुणा इमे ते, संपिंडिया अग्गरसा पभूया। भुंजामु ता कामगुणे पगाम, पच्छा गमिस्सामु पहाणमग्गं ॥ ३१ ॥ सुष्टु-अतिशयेन संभृताः-संस्कृताः सुसंभृताः, के ते? 'कामगुणा' वेणुवीणाकणितकाकलीगीतादयः ॥४०५॥ dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy