SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ "पृथिव्यपस्तेजोवायुरिति तत्त्वानि, एतेभ्यश्चैतन्यं, मद्याङ्गेभ्यो मदशक्तिवत्", तथा 'नासइत्ति नश्यन्ति-अभ्रप-1 होटलवत्प्रलयमुपयान्ति ‘णावचिट्टे'त्ति न पुनः अवतिष्ठन्ते-शरीरनाशे सति न क्षणमप्यवस्थितिभाजो भवन्ति, यद्वा । शरीरे सत्यप्यमी सत्त्वा नश्यन्ति, नावतिष्ठन्ते; जलवुद्बुदवत् , उक्तं हि-"जलवुद्वदवज्जीवाः" अत्र च प्रत्यक्षतोडनुपलम्भ एव प्रमाणं, न ह्यसौ शरीरे शरीरव्यतिरिक्तो वा भवान्तरप्राप्तो प्रत्यक्षत उपलभ्यत इति नास्ति, शशवि|पाणवदिति भाव इति सूत्रार्थः ॥ कुमारकावाहतुः नो इंदियग्गिज्झु अमुत्तभावा, अमुत्तभावा चिय होइ निचो। अज्झत्थहेउं निययस्स बंधो, संसारहेउं च वयंति बंधं ॥ १९॥ 'नो' इति प्रतिषेधे इन्द्रियैः-श्रोत्रादिभिग्राह्यः-संवेद्य इन्द्रियग्राह्यः, सत्त्व इति प्रक्रमः, असत्त्वादेवायमिन्द्रियाग्राह्य इत्याशङ्कयाह-'अमूर्तभावात्' इन्द्रियग्राह्यरूपाद्यभावात् , अयमाशयः-यदिन्द्रियग्राह्यं सन्नोपलभ्यते तदस-1 दिति निश्चीयते, यथा प्रदेशविशेषे घटो, यत्तु तद्बाह्यमेव न भवति न तस्यानुपलम्भेऽप्यभावनिश्चयः, पिशाचादिवत् , तद्विषयानुपलम्भस्य संशयहेतुत्वात् , न च साधकबाधकप्रमाणाभावात् संशयविषयतैवास्त्विति वाच्यं, तत्साधकस्यानुमानस्य सद्भावात् , तथाहि-अस्त्यात्मा अहं पश्यामि जिघ्रामीत्याद्यनुगतप्रत्ययान्यथानुपपत्तेः, आत्माभावे हीन्द्रियाण्येव द्रष्टुणि स्युः, तेषु च परस्परं विभिन्नेष्वहं पश्यामि जिघ्रामीत्यादिरनुगतोऽहमितिप्रत्ययोऽनेकेष्विव | Jain Education Ternational For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy