________________
उत्तराध्य.
बृहद्वृत्तिः
॥४०१ ॥
धणेण किं धम्मधुराहिगारे ?, सयणेण वा कामगुणेहिं चेव ।
समणा भविस्सा गुणोहधारी, बहिंविहारा अभिगम्म भिक्खं ॥ १७ ॥
'धन' द्रव्येण किं ?, न किञ्चिदित्यर्थः, धर्म एवातिसात्त्विकैरुह्यमानतया धूरिव धूर्धर्मधुरा तदधिकारे - तत्प्रस्तावे खजनेन वा कामगुणैश्चैव ?, तथा च वेदेऽप्युक्तं - " न प्रजया न धनेन त्यागेनैकेनामृतत्वमानशु" रित्यादि, ततः 'श्रमणौ' तपखिनौ भविष्यावः, गुणौघं - सम्यग्दर्शनादिगुणसमूहं धारयत इत्येवंशीलौ गुणौघधारिणौ वहिः - - | ग्रामनगरादिभ्यो वहिर्वर्त्तित्वाद् द्रव्यतो भावतश्च क्वचिदप्रतिबद्धत्वाद विहारः- विहरणं ययोस्तौ वहिर्विहारौ अप्रतिबद्धविहारावितियावत् 'अभिगम्य' आश्रित्य 'भिक्षां' शुद्धोञ्छां तामेवाहारयन्ताविति भाव इति सूत्रार्थः ॥ आत्मा|स्तित्वमूलत्वात्सकलधर्मानुष्ठानस्य तन्निराकरणायाह पुरोहितः -
जहा य अग्गी अरणीउडसंतो, खीरे घयं तिल्लमहा तिलेसु । एमेव जाया सरीरंमि सत्ता, संमुच्छई नासइ नावचिट्टे ॥ १८ ॥
'येथे' त्यौपम्ये शब्दोऽवधारणे, यथैव 'अग्निः' वैश्वानरः 'अरणिउत्ति अरणितः - अग्निमन्थनकाष्ठाद् 'असन्' अविद्यमान एव संमूर्च्छति, तथा क्षीरे घृतं तैलमथ तिलेषु, एवमेव 'हे जाती' पुत्रौ ! 'सरीरंसि'ति शरीरे काये 'सत्त्वाः' प्राणिनः 'समुच्छंति त्ति संमूर्छन्ति, पूर्वमसन्त एव शरीराकारपरिणतभूतसमुदायत उत्पद्यन्ते तथा चाहु:
Jain Education International
For Personal & Private Use Only
इषुकारीय
मध्ययनं .
१४
॥४०१ ॥
www.jainelibrary.org