SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ प्रमत्तो वा 'धनं' वित्तं 'एसमाणे'त्ति एपयन्' विविधोपायैर्गवेषयमाणः 'पप्पोत्ति' प्राप्नोति 'मृत्युं' प्राणत्यागं, कोऽसौ ?-पुरुषः 'जरांच' वयोहानिलक्षणाम् । किञ्च-इदं च मेऽस्ति रजतरूप्यादि इदं च नास्ति पद्मरागादि, इदं च 'मे' मम 'कृत्यं कर्तव्यं गृहप्राकारादि, इदमकृत्यमारब्धमपि वणिज्यादि न कर्तुमुचितं 'त'मिति पुरुषमेवमेव-वृथैव 'लालप्यमानम्' अत्यर्थ व्यक्तवाचा वदन्तं हरन्ति-अपनयन्त्यायुरिति हराः-दिनरजन्यादयो व्याधिविशेषा वा 'हरन्ति' जन्मान्तरं नयन्ति, उपसंहर्तुमाह-'इती'त्यस्माद्धेतोः 'कथं' केन प्रकारेण 'प्रमादः' अनुद्यमः प्रक्रमाद्धर्मे कर्तुमुचित इति शेषः, इति सूत्रषवार्थः॥ सम्प्रति तौ धनादिभिर्लोभयितुं पुरोहितःप्राह धणं पभूयं सह इत्थियाहिं, सयणा तहा कामगुणा पगामा । तवं कए तप्पइ जस्स लोगो, तं सव्व साहीणमिहेव तुज्झं ॥ १६ ॥ 'धनं' द्रव्यं 'प्रभूतं' प्रचुरं 'सह स्त्रीभिः' समं नारीभिः 'खजनाः' पितृपितृव्यादयः, तथा 'कामगुणाः' शब्दादियः 'पगाम'त्ति 'प्रकामाः' अतिशायिनः 'तपः' कष्टानष्टानं कृते' निमित्तं 'तप्यते' अनुतिष्ठति 'यस्य' धनादेः| लोकः' जनस्तत् ‘सर्वम्' अशेषं 'खाधीनम्' आत्मायत्तम् 'इहैव' अस्मिन्नेव गृहे 'तुझंति सूत्रत्वाधुवयोः, यद्यपि |च तयोः स्त्रियस्तदा न सन्ति तथाऽपि तदवाप्तियोग्यताऽस्तीति तासामभिधानमिति सूत्रार्थः ॥ तावाहतुः ***** COSESS**** dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy