________________
इषुकारीय
१५
उत्तराध्य.
अथ चतुर्दशमिषुकारीयमध्ययनम्। बृहद्वृत्तिः
मध्ययनं. ॥३९॥ व्याख्यातं त्रयोदशमध्ययनं चित्रसम्भूतीयम् , अधुना चतुर्दशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्त-2
राध्ययने मुख्यतो निदानदोष उक्तः प्रसङ्गतो निर्निदानतागुणश्च, अत्र तु मुख्यतः स एवोच्यते इत्यनेन सम्बन्धेनायातमिदमध्ययनम् , अस्य चानुयोगद्वारचतुष्टयचर्चः प्राग्वत्तावद्यावन्नामनिष्पन्ननिक्षेपे इषुकारीयमिति नाम, अत इषुकारनिक्षेपमभिधातुमाह नियुक्तिकृत्
___ उसुआरे निक्खेवो चउ० ॥ ३६० ॥ जाण० ॥ ३६१॥ उसुआरनामगोए वेयंतो भावओ अ उसुआरो । तत्तो समुट्ठियमिणं उसुआरिजंति अज्झयणं ॥३६२॥ R 15| गाथात्रयं स्पष्टमेव, नवरमिषुकाराभिलापेन नेयं, तथा यदिषुकारात्समुत्थितं तत्तस्मै प्रायो हितमेव भवतीति || ॥३९३॥
इपुकाराय हितमिपुकारीयमुच्यते, प्राधान्याच राज्ञा निर्देशः, अन्यथा षड्भ्योऽप्येतत्समुत्थानं तुल्यमेवेति ॥ सम्प्रति कोऽयमिपुकार इति तद्वक्तव्यतामाह नियुक्तिकृत्
www.janelibrary.org
For Personal & Private Use Only
JainEducation International