________________
Jain Education 1
| कंचुयपज्जुण्णंमि अ हत्थो वणकुंजरे कुरुमई अ । एए कन्नालंभा बोद्धवा बंभदत्तस्स ॥ ३५९ ॥ एतास्तु विशिष्टसम्प्रदायाभावान्न वित्रियन्ते ॥ सम्प्रति प्रसङ्गत एव चित्रवक्तव्यतोच्यते
चित्तोऽवि कामेहिं वित्तकामो, उदत्तचारित्ततवो महेसी ।
अणुत्तरं संजम पालइत्ता, अणुत्तरं सिद्धिगई गओ ॥ ३५ ॥ तिबेमि ॥ ॥ चित्तसंभूइजं समत्तं ॥ १३ ॥
'चित्रोsपि ' जन्मान्तरनामतश्चित्राभिधानस्तपस्व्यपि, अत्रापि 'अपि:' पुनरर्थे, ततश्चित्रः पुनः 'कामेभ्यः' अभिलषणीयशब्दादिभ्यो विरक्तः - पराङ्मुखीभूतः कामः - अभिलाषोऽस्येति विरक्तकामः उदात्तं प्रधानं चारित्रं च| सर्वविरतिरूपं तपश्च- द्वादशविधं यस्य स उदात्तचारित्रतपाः, पाठान्तरतः - उदग्रचारित्रतपा वा महेषी महर्षिर्वा, 'अनुत्तरं ' सर्व संयमस्थानो परिवर्त्तिनं 'संजम' त्ति संयमम्- आश्रवोपरमणादिकं 'पालयित्वा' आसेव्य 'अनुत्तरां' सर्वलो| काकाशो परिवर्त्तिनीमतिप्रधानां वा 'सिद्धिगतिं' मुक्तिनाम्नीं गतिं 'गतः' प्राप्त इति सूत्रार्थः ॥ 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्ते च पूर्ववत् । इत्याचार्य श्री शान्तिसूरिकृतायां शिष्यहितायामुत्तराध्ययनटीकायां चित्रसंभूतीयं त्रयोदशमध्ययनं समाप्तमिति ॥ १३ ॥
1
For Personal & Private Use Only
ainelibrary.org