SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Jain Education | धर्मस्यापि सम्यक्त्व देशविरतिरूपस्य देवलोकफलत्वेनोक्तत्वादिति भाव इति सूत्रार्थः ॥ एवमुक्तोऽपि यदाऽसौ न किञ्चित्प्रतिपद्यते तदा तदविनेयतामवधार्य मुनिराह - न तुज्झ भोगे चईऊण बुद्धी, गिद्धोऽसि आरंभपरिग्गहेसुं । मोह कओ इति विप्पलावो, गच्छामि रायं ! आमंतिओऽसि ॥ ३३ ॥ 'ने'ति प्रतिषेधे तव 'भोगान्' शब्दादीन् उपलक्षणत्वादनार्यकर्माणि वा, 'चइऊण'त्ति त्यक्तुं यद्वा सोपस्कारत्वाद्भोगांस्त्यक्त्वा धर्मो मया विधेय इति 'बुद्धिः' अवगतिः, किन्तु 'गृद्धः' मूर्च्छितः 'असि' भवसि केषु ? - 'आरम्भपरिग्रहेषु' अवद्यहेतुषु व्यापारेषु चतुष्पदद्विपदादिखीकारेषु च, 'मोहं'ति मोघं निष्फलं यथा भवति एवं, सुन्यत्ययाद्वा मोघो - निष्फलो मोहेन वा - पूर्वजन्मनि मम भ्राताऽऽसीदिति स्नेहलक्षणेन 'कृतः' विहितः एतावान् 'विप्रलापः ' विविधव्यर्थवचनोपन्यासात्मकः, सम्प्रति तु 'गच्छामि' व्रजामि राजन् ! आमन्त्रितः - संभाषितः, अनेकार्थत्वाद्धातूनां पृष्टो वा 'असि' भवसि अयमाशयः - अनेकधा जीवितानित्यत्वादिदर्शनद्वारेणानुशिष्यमाणस्यापि | ते न मनागपि विषयविरक्तिरित्यविनेयत्वादुपेक्षैव श्रेयस्करी, उक्तं हि "मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्व|गुणाधिकक्लिश्यमानाविनेयेषु" ( तत्त्वा० अ० ७-सू० - ६ ) इति सूत्रार्थः ॥ इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य यदभूत्तदाह For Personal & Private Use Only Jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy