SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृद्धृत्तिः ॥३९॥ -SACCORESAMSROSC याति, कोऽसौ ?-कालः, कुत एतत् ?-यतस्त्वरन्ति रात्रयो, न चापि भोगाः पुरुषाणां 'नित्याः' शाश्वताः, अपे-चित्रसभूभिन्नकमत्वान्न केवलं जीवितमुक्तिनीतितो न नित्यं, किन्तु भोगा अपि, यत उपेत्य खप्रवृत्त्या न तु पुरुषाभि- तीयाध्य. प्रायेण भोगाः पुरुष 'त्यजन्ति' परिहरन्ति, कमिव क इवेत्साह-'दुमं' वृक्षं यथा क्षीणानि-विनष्टानि फलानि यस्यासौ क्षीणफलस्तं, 'वा' इत्यौपम्ये, उक्तं हि-"पिव मिव विव वा इवार्थे" भिन्नक्रमश्चायं, ततः 'पक्षीव' विहग इव, | फलोपमानि हि पुण्यानि, ततस्तदपगमे क्षीणफलं वृक्षमिव पुरुषं पक्षिवद्भोगा विमुञ्चन्तीति सूत्रार्थः॥ यत एवमतः जईऽसि भोगे चइउं असत्तो, अज्जाई कम्माई करेहि रायं ।। धम्मे ठिओ सब्वपयाणुकंपी, तं होहिसि देवो इओ विउव्वी ॥ ३२ ॥ | यदि तावदसि त्वं भोगान् ‘त्यक्तुम्' अपहातुम् 'अशक्तः' असमर्थः, पठ्यते च-'जइ तंसि भोगे चइतुं असत्ते'त्ति, यदि चैवं तावत्कर्तुं न शक्तस्ततः किमित्याह-'आर्याणि' हेयधर्मेभ्यः-अतिनिस्त्रिंशतादिभ्यो दूरयातानि शिष्टजनो- ३९१॥ चितानीतियावत् 'कर्माणि' अनुष्ठानानि कुरु राजन् ! 'धर्मे' प्रक्रमाद्गृहस्थधर्मे सम्यग्दृष्टयादिशिष्टाचरिताचा-1 हारलक्षणे स्थितः सन् 'सर्वप्रजानुकम्पी' समस्तप्राणिदयापरः, ततः किं फलमित्याह-ततः' इत्यार्यकर्मकरणाद् भवि-18 प्यसि 'देवः' वैमानिकः 'इतः' इत्यस्मान्मनुष्यभवादनन्तरं 'विउवित्ति वैक्रियशरीरवानित्यर्थ इति वृद्धाः, गृहस्थ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy