________________
नागो जहा पंकजलावसन्नो, दटुं थलं नाभिसमेइ तीरं।
एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुव्वयामो ॥ ३० ॥ 'नागः' हस्ती 'यथे'ति दृष्टान्तोपदर्शकः पङ्कप्रधानं जलं पङ्कजलं यत्कलमुच्यते तत्रावसन्नो-निमग्नः पङ्कजलावसन्नः सन् ‘दृष्ट्वा' अवलोक्य 'स्थलं' जलविकलभूतलं 'न' नैव 'अभिसमेति' प्राप्नोति 'तीर' पारम् , अपेर्गम्यमानत्वात्तीरमप्यास्तां स्थलमिति भावः, इत्येवंविधनागवत् वयमित्यात्मनिर्देशे 'कामगुणेषु' उक्तरूपेषु 'गृद्धाः'
मूञ्छिता न 'भिक्षोः' साधोः 'मार्ग' पन्थानं सदाचारलक्षणम् 'अनुव्रजामः' अनुसरामः । अमी हि पङ्कजलोपमाः * कामभोगाः, ततस्तत्परतत्रतया न तत्परित्यागतो निरपायतया स्थलमिव मुनिमार्गमवगच्छन्तोऽपि पङ्कजलावमग्न-12 गजवद्वयमनुगन्तुं शक्नुम इति सूत्रार्थः ॥ पुनरनित्यतादर्शनाय मुनिराह
अचेइ कालो तरंति राइओ, न यावि भोगा पुरिसाण निचा।
उविच्च भोगा पुरिसं चयंति, दमं जहा खीणफलं व पक्खी ॥ ३१॥ 'अत्येति' अतिकामति कालः यथाऽऽयुःकालः, किमित्येवमुच्यते ?, अत आह-'त्वरन्ति' शीघ्रं गच्छन्ति। 'रात्रयः' रजन्यः, दिनोपलक्षणं चैतत् , ततोऽनेन जीवितव्यस्यानित्यत्वमुक्तम् , उक्तं हि-"क्षणयामदिवसमासच्छलेन गच्छन्ति जीवितदलानि । इति विद्वानपि कथमिह गच्छसि निद्रावश रात्रौ ? ॥१॥" अथवा 'अत्येति' अतीव
X Jain Education International
For Personal & Private Use Only
www.jainelibrary.org