________________
णतो निरन्तरमित्यभिप्रायः, सत्यपि च जीविते 'वर्ण' सुस्निग्धच्छायात्मकं 'जरा' विश्रसा 'हरति' अपनयति 'नरस्य ' मनुष्यस्य 'राजन् !' चक्रवर्त्तिन् !, यतश्चैवमतः 'पञ्चालराज !' पञ्चमण्डलोद्भवनृपते ! 'वचनं' वाक्यं 'शृणु' आकर्णय, किं तत् ? - मा कार्षीः कानि १ - कर्माणि' असदारम्भरूपाणि 'महालयाणि'त्ति अतिशय महान्ति, | महान् वा लयः - कर्मा श्लेषो येषु तानि, उभयत्र पञ्चेन्द्रियव्यपरोपणकुणिमभक्षणादीनीति सूत्रार्थः ॥ एवं मुनिनोक्ते | नृपतिराह—
देता जेन
अपि जाणामि जहेह साहू !, जं मे तुमं साहसि वक्कमेयं ।
भोगा इमे संगकरा भवति, जे दुज्जया अज्जो ! अम्हारिसेहिं ॥ २७ ॥
अहमपि न केवलं भवानित्यपिशब्दार्थः, 'जानामि' अवबुध्ये, तथा इति शेषः, 'यथा' येन प्रकारेण 'इह' अस्मिन् जगति साधो ! यत् 'मे' मम त्वं 'साधयसि' कथयसि 'वाक्यम्' उपदेशरूपं वचः 'एतत्' यदनन्तरं भवतोक्तं, तत् किं न विषयान् परित्यजस्यत आह- 'भोगाः ' शब्दादयः 'इमे' प्रत्यक्षाः 'सङ्गकराः ' प्रतिबन्धोत्पादका भवन्ति ये | यत्तदोश्च नित्याभिसम्बन्धात्ते दुःखेन जीयन्ते - अभिभूयन्ते इति दुर्जयाः दुस्त्यजा इतियावत् 'अज्जो'त्ति आर्य ! अस्मादृशैः, गुरुकर्मभिर्जन्तुभिरिति गम्यते, पठ्यते च - ' अहंपि जाणामि जो एत्थ सारो' पादत्रयं तदेव, अहमपि
Jain Educationonal
For Personal & Private Use Only
w.jainelibrary.org