SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ -हि-"न पिता भ्रातरः पुत्रा, न भार्या न च बान्धवाः । न शक्ताः मरणात्रातुं, शक्ताः संसारसागरे ॥१॥” इति, हो अथवाऽशो-दुःखभागस्तं हरन्ति-अपनयन्ति ये तेऽशहरा भवन्तीति, इदमेवाभिव्यनक्ति, आद्यव्याख्याने तु स्यादेत द्-जीवितारक्षणेऽपि दुःखांशहारिणो भविष्यन्त्यत आह-न तस्य-मृत्युना नीयमानस्य तत्कालभाविना दुःखेनात्यन्तपीडितस्य दुःखं शारीरं मानसं वा 'विभजन्ति' विभागीकुर्वन्ति 'ज्ञातयः' दूरवर्तिनः खजना न 'मित्रवर्गा' सुहत्समूहा न 'सुताः' पुत्रा न 'बान्धवाः' निकटवर्तिनः खजनाः, किन्तु एक:-अद्वितीयः 'खयम्' आत्मना 'प्रत्यनुभवति' वेदयते 'दुःखं' क्लेशं, किमिति ?, यतः 'कर्तारमेव' उपार्जयितारमेव 'अनुयाति' अनुगच्छति, किं तत् ?कर्म, येन तत्कृतं तस्यैव फलमुपनयतीति भाव इति सूत्रद्वयार्थः ॥ इत्थमशरणत्वभावनामभिधायैकत्वभावनामाह चिच्चा दुपयं च चउप्पयं च, खित्तं गिहं धणधन्नं च सव्वं । कम्मप्पबीओ अवसो पयाई, परं भवं सुंदर पावगं वा ॥ २४ ॥ . तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिउं पावगेणं । भज्जा य पुत्तावि य नायो अ, दायारमन्नं अणुसंकमंति ॥ २५ ॥ 'त्यक्त्वा' उत्सृज्य 'द्विपदं च भार्यादि 'चतुष्पदं च' हस्त्यादि क्षेत्रम्' इक्षक्षेत्रादि 'गृह' धवलगृहादि 'धण'त्ति धनं-कनकादि 'धान्य' शाल्यादि, चशब्दाद् वस्त्रादि च, 'सर्व' निरवशेष, ततः किमित्याह-कर्मैवात्मनो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy