________________
Jain Education l
पूर्वेण संबन्धः कोऽर्थः ? - पुराकृतकर्मविजृम्भितमेवैतत् कथमन्यथा तथाभूतस्यैवंविधसमृद्ध्यवासिरिति भावः, यतश्चैवमतोऽभिनिष्क्रामेति संबन्धः, किं कृत्वेत्याह- ' त्यक्त्वा' अपहाय भुज्यन्त इति भोगाः - द्रव्यनिचयाः कामा वा तान् 'अशाश्वतान्' अनित्यान् आदीयते - सद्विवेकैर्गृह्यत इत्यादानः - चरित्रधर्मस्तद्धेतोरभिनिष्क्राम - आभिमुख्येन प्रत्रजितो भव, गृहस्थतायां हि न सर्वविरतिरूपचारित्र सम्भव इति भावः पठन्ति च - ' आयाणमेवा अणुचिंतयाही 'ति, स्पष्टमिति सूत्रत्रयार्थः ॥ क एवमकरणे दाष इत्याह-
इह जीविए राय ! असासयंमि, धणियं तु पुण्णाइँ अकुच्वमाणो । से सोअई महोवणीए, धम्मं अकाऊण परंमि लोगे ॥ २१ ॥
इह 'जीविते' मनुष्यसम्बन्धिन्यायुषि राजन् ! 'अशाश्वते' अस्थिरे 'धणियं तुति अतिशयेनैव न तु ध्वजपट| प्रान्ताद्यन्यास्थिरवस्तुसाधारणतया 'पुण्यानि' पुण्यहेतुभूतानि शुभानुष्ठानान्यकुर्वाणः 'सः' इति पुण्यानुपार्जकः | 'शोचते' दुःखार्त्तः पश्चात्तापं विधत्ते, मृत्युः - आयुःपरिक्षयस्तस्य मुखभित्र मुखं मृत्युमुखं-शिथिलीभवद्बन्धनाद्य|वस्था तदुपनीतस्तथाविधकर्मभिरुपढौकितो मृत्युमुखोपनीतः सन् 'धर्म' शुभानुष्ठानम् 'अकृत्वा' अननुष्ठाय 'परंमि'त्ति चस्य गम्यमानत्वात् परस्मिंश्च 'लोके' जन्मान्तररूपे, गत इति शेषः, नरकादिषु सह्या सातवेदनार्दितशरीरः
For Personal & Private Use Only
Inelibrary.org