________________
१३
उत्तराध्य. _ 'नरेन्द्र !' चक्रवर्त्तिन् ! जायन्तेऽस्यामिति जातिः 'अधमा' निकृष्टा 'नराणां' मनुष्याणा मध्ये 'श्वपाकजातिः' चित्रसंभूबृहद्धत्तिः
चाण्डालजातिः 'दुहतो'त्ति द्वयोरपि 'गतयोः प्राप्तयोः, किमुक्तं भवति ?-यदाऽऽवां श्वपाकजातावुत्पन्नौ तदा सर्वजनगर्हिता जातिरासीत् , कदाचित्तामवाप्याप्यन्यत्रैवोषितौ स्यातामित्याह-यस्यां, वयं प्राग्वच्च बहुवचनं, सर्वजनस्य'
जतीयाध्य. ॥३८७॥ अशेषलोकस्य 'द्वेष्यौ' अप्रीतिकरौ 'वसीय'त्ति अवसाव-उषितौ, केषु ?-श्वपाकानां निवेशनानि-गृहाणि
श्वपाकनिवेशनानि तेषु, कदाचित्तत्रापि विज्ञानविशेषादिनाऽहीलनीयावेव स्यातामित्याह-तस्यां च जातौ श्वपाकसम्बन्धिन्यां च, 'तुः' विशेषणे, ततश्च जात्यन्तरेभ्यः कुत्सितत्वं विशिनष्टि, पापैव पापिका तस्यां कुत्सितायां, पापहेतुभूतत्वेन वा पापिका तस्यां, प्रापिकायां वा नरकादिकुगतेरिति गम्यते, 'बुच्छे'ति उषितौ 'मु' इत्यावां,
केषु?-श्वपाकनिवेशनेषु, कीदृशौ ?-सर्वस्य लोकस्य 'जुगुप्सनीयौ' हीलनीयौ 'इह' इत्यस्मिन् जन्मनि 'तुः' पुनदरर्थस्तत इह पुनः 'कर्माणि' शुभानुष्ठानानि 'पुरेकडाईति पूर्वजन्मोपार्जितानि विशिष्टजात्यादिनिवन्धनानीति ||
शेषः, तत उत्पन्नप्रत्ययैः पुनस्तदुपार्जन एव यलो विधेयो न तु विषयाभिष्वङ्गव्याकुलितमानसैरेव स्थेयमिति भाव
इति ॥ यतश्चैवमतः सः' इति यः पुरा संभूतनामाऽनगार आसीद् ‘इदानीम्' अस्मिन् काले 'सित्ति पूरणे यद्वा ॥३८७।। दादाणिसि ति देशीयभाषयेदानी राजा महानुभागो महर्द्धिकः पुण्यफलोपेतश्च सन् दृष्टधमेफलत्वेनाभिनिष्क्रामति
संवन्धः, अथवा सोपस्कारत्वाद्यत् स एव त्वमिदानी राजा महानुभागताद्यन्वित इह जातस्तत्कर्माणि पुराकृतानीति
SAMACROSAROKAR
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org