SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ वा, एते तु यत्रैव चक्रिणे रोचते तत्रैव भवन्तीति वृद्धाः, किञ्च - 'इदं' प्रत्यक्षं 'गृहम्' अवस्थितप्रासादरूपं वित्तं - | प्रतीतं तच्च तद्धनं च- हिरण्यादि तेनोपेतं युक्तं वित्तधनोपेतं पठन्ति च 'चित्तधणप्पभूयंति, तत्र प्रभूतं - बहु | चित्रम् - आश्चर्यमनेकप्रकारं वा धनमस्मिन्निति प्रभूतचित्रधनं, सूत्रे तु प्रभूतशब्दस्य परनिपातः प्राग्वत्, 'प्रसाधि' | प्रतिपालय पञ्चाला नाम जनपदस्तस्मिन् गुणा- इन्द्रियोपकारिणो रूपादयस्तैरुपेतं पञ्चालगुणोपेतं, किमुक्तं भवति १| पञ्चालेषु यानि विशिष्टवस्तूनि तान्यस्मिन् गृहे सर्वाण्यपि सन्ति, तदा पञ्चालानामत्युदीर्णत्वात्पञ्चालग्रहणम्, | अन्यथा हि भरतेऽपि यद्विशिष्टवस्तु तत् तद्नेह एव तदासीत् ॥ किं च 'हिं'ति द्वात्रिंशत्पात्रोपलक्षितैर्नाय्यैर्नृत्यै|र्वा - विविधाङ्गहारादिस्वरूपैगतैः -- ग्रामखरमूर्च्छनालक्षणैः, चस्य भिन्नक्रमत्वात्, 'वाइएहिं 'ति वादित्रैश्च मृदङ्ग| मुकुन्दादिभिः 'नारीजनान्' स्त्रीजनान् 'परिवारयन्' परिवारीकुर्वन्, पठ्यते च - 'पवियारियंतो 'ति प्रविचारयन् सेवमानो, 'भुआहि'त्ति भुङ्ख भोगानिमान् - परिदृश्यमानान्, सूत्रत्वात् सर्वत्र लिङ्गव्यत्ययः, भिक्षो !, इह तु यद्गजतुरङ्गमाद्यनभिधाय स्त्रीणामेवाभिधानं तत् स्त्रीलोलुपत्वात्तस्य, तासामेव वाऽत्यन्ताक्षेपकत्वख्यापनार्थं, कदाचिश्चित्रो | वदेदित्थमेव सुखमित्याह - मयं रोचते' प्रतिभाति प्रव्रज्या, 'हुः' अवधारणे भिन्नक्रमश्च, दुःखमेव, न मनागपि सुख, दुःखहेतुत्वादिति भाव इति सूत्रद्वयार्थः ॥ इत्थं चक्रिणोक्ते मुनिः किं कृतवान् ? इत्याह Jain Education International For Personal & Private Use Only %%%%%% www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy