________________
उत्तराध्य. बृहद्वृत्तिः ॥३८५॥
१३
ASKAR
इति ख्यापितं भवति । क्वेत्याह-नराणां-पुरुषाणां सङ्घः-समूहस्तन्मध्ये, गाथामेव पुनर्विशेषयितमाह-'या' चित्रसभूगाथां 'भिक्षवः' मुनयः शीलं-चारित्रं तदेव गुणः, यद्वा गुणः पृथगेव ज्ञानं, ततः शीलगुणेन शीलगुणाभ्यां तीयाध्य. वा-चारित्रज्ञानाभ्यामुपेताः-युक्ताः शीलगुणोपेताः 'इह' अस्मिन् जगति 'अञ्जयते'त्ति अर्जयन्ति पठनश्रवणतदर्थानुष्ठानादिभिरावर्जयन्ति । यद्वा 'जं भिक्खुणो' इत्यत्र श्रुत्वेति शेषः, ततो यां श्रुत्वा 'जयंत'त्ति 'इह' अस्मिन् जिनप्रवचने 'यतन्ते' यत्नवन्तो भवन्ति, सोपस्कारत्वात्सा मयाऽप्याकर्णिता, ततः 'श्रमणः' तपखी अस्मि अहं र जातो, न तु दुःखदग्धत्वादिति भावः, पठ्यते च-'सुमणोत्ति सुमनाः शोभनमना इति सूत्रत्रयार्थः ॥ इत्थं | मुनिनाभिहिते ब्रह्मदत्तः खसमृद्धया निमन्त्रयितुमाह
उच्चोअए महुकक्के य बंभे, पवेइया आवसहा य रम्मा। इमं गिहं वित्तधणप्पभूयं, पसाहि पंचालगुणोववेयं ॥ १३ ॥ नहेहि गीएहि य वाइएहिं, नारीजणाहिं परिवारयंतो ।
॥३८५॥ भुंजाहि भोगाई इमाई भिक्खू, मम रोअई पब्वज्जा हु दुक्खं ॥ १४ ॥ उच्चोदयो मधुः कः, चशब्दान्मध्यो ब्रह्मा च पञ्च प्रधानाः प्रासादाः प्रवेदिताः, मम वर्द्धकिपुरःसरेः सुरेरुपनीता इत्यर्थः, 'आवसथाश्च' शेषभवनप्रकारा 'रम्याः' रमणीयाः, पाठान्तरतश्च आवसथाः अतिरम्याः-सुरम्या
Jain Education International
www.jainelibrary.org
For Personal & Private Use Only