SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ पुण्यफलेन-शुभकर्मफलेनोपपेतः-अन्वितः स पुण्यफलोपपेतः इति ॥ यथा त्वं 'जानासि' अवधारयसि 'संभूत पूर्वजन्मनि संभूताभिधान ! 'महानुभागं' बृहन्माहात्म्यं 'महर्द्धिकं' सातिशयविभूतियुक्तम् अत एव पुण्यफलोदिपेतं चित्रमपि 'जानीहि' अवबुद्धख तथैव' अविशिष्टमेव 'राजन् !' नृप!, किमित्येवमत आह-ऋद्धिः-सम्पत् द्युतिः दीप्तिस्तस्यापीति-जन्मान्तरनामतश्चित्राभिधानस्य, ममापीति भावः, चशब्दो यस्मादर्थे, ततो यस्मात्प्रभूता-बबीत्यर्थः, यद्वाऽऽत्मा मम पुण्यफलोपेत इति, अनेन चित्र एवात्मानं निर्दिशति, तथा जानीहि संभूत इत्यादी आत्मेत्यनुवर्तते, अर्थवशाच विभक्तिपरिणामः, ततश्चैवं योज्यते-हे संभूत ! यथा त्वमात्मानं महानुभागादिविशेषणविशिष्ट जानासि तथा चित्रमपि जानीहि, चित्रनामो ममापि गृहस्थभावे एवंविधत्वादेवेति भावः, शेषर प्राग्वत् ॥ यदि तवाप्येवंविधा समृद्धिरासीत् तत्किमिति प्रबजित इत्याह-महान्-अपरिमितोऽनन्तद्रव्यपर्या-31 ६ यात्मकतयाऽर्थः-अभिधेयं यस्य तन्महार्थ रूपं-खरूपं न तु चक्षुह्यो गुणः, ततो महार्थ रूपं यस्याः सा तथा, महतो वाऽर्थान-जीवादितत्त्वरूपान् रूपयति-दर्शयतीति महार्थरूपा, 'वयणप्पभूय'त्ति वचनेन अप्रभूता अल्प भूता वा-अल्पत्वं प्राप्ता वचनाल्पभूता वचनात्प्रभूता वा स्तोकाक्षरेतियावत् , केयमीरशीत्याह-गीयत इति गाथा, xसा चेहाथोंद्धर्माभिधायिनी सूत्रपद्धतिः, अन्विति-तीर्थकृद्गणधरादिभ्यः पश्चाद्रीता अनुगीता, कोऽर्थः -तीथे-| करादिभ्यः श्रुत्वा प्रतिपादिता स्थविरैरिति शेषः, अनुलोमं वा गीताऽनुगीता, अनेन श्रोत्रनुकूलैव देशना क्रियत में RECASSACREASTRA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy