________________
उत्तराध्य.
बृहद्वृत्तिः
॥३८४ ॥
भिक्षुकत्वाद्भवतः, तथा च किमिति भवताऽपि मयैव सहोपार्जितानि शुभकर्माणि विफलानि जातानीत्याशय इति सूत्रार्थः ॥ मुनिराह -
सव्वं सुचिणं सफलं नराणं, कडाण कम्माण न मुक्खु अत्थि । अत्थेहि कामेहि अ उत्तमेहिं आया ममं पुण्णफलोवबेओ ॥ १० ॥ जाणाहि संभूय ! महाणुभागं, महिडियं पुण्णफलोववेयं । चित्तंपि जाणाहि तहेव रायं !, हड्डी जुई तस्सवि अप्पभूआ ॥ ११ ॥ महत्थरूवा वयणप्पभूया, गाहाणुगीया नरसंघमज्झे ।
जं भिक्खुणी सीलगुणोववेया, इहज्ज्जयंते समणोऽम्हि जाओ ॥ १२ ॥
'सर्व' निरवशेषं 'सुचीर्ण' शोभनमनुष्ठितं तपःप्रभृतीति गम्यते, चीर्णशब्दस्य 'सुचीर्ण प्रोषितत्रत' मित्यादि| रूढितः साधुत्वं, सह फलेन वर्त्तत इति सफलं नराणामिति, उपलक्षणत्वादशेषाणामपि प्राणिनां किमिति १, यतः कृतेभ्यः - अर्थादवश्यवेद्यतयोपरचितेभ्यः कर्मभ्यो न 'मोक्षः' मुक्तिरस्तीति, ददति हि तानि निजफलमवश्यमिति भावः, प्राकृतत्वाच्च सुच्ध्यत्ययः स्यादेतत्-त्वयैव व्यभिचार इत्याह- 'अथैः' द्रव्यैरथैर्वा - प्रार्थनीयैः, वस्तुभिरिति गम्यते, कामैश्च - मनोज्ञशब्दादिभिः 'उत्तमैः' प्रधानैः, लक्षणे तृतीया, तत एतदुपलक्षितः सन्नात्मा मम
Jain Education International
For Personal & Private Use Only
चित्रसंभू
तीयाध्य
१३
॥ ३८४॥
www.jainelibrary.org