SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Jain Education परिपूर्ण श्लोकद्वयं जातस्तदाकर्णनात्तस्य चित्तावेशः, निरुद्धश्च तज्जनितमूर्च्छयाऽऽश्वासमार्गो, निमीलितं लोचनयुगलं, लुठितः स आसनात्, निपतितो भुवि, किमेतत् किमेतदित्यादिनाऽऽकुलितः सर्वोऽपि तत्परिच्छदः, दृष्टश्च तेनारघट्टिकः, ताडितः पाणिप्रहारादिभिः, आरटितमेतेन - न मयैतत्पूरितं न मयेति, किन्त्वन्येनैव भिक्षुणैतत्क| लिकन्दमूलेनेति, अत्रान्तरे लब्धा चेतना, प्राप्तं च स्वास्थ्यं चक्रवर्त्तिना, उक्तं च- कासौ लोकपूरयिताssस्त इति ?, कथितस्तद्व्यतिकरो यथा - केनचिद् भिक्षुणैतत्पूरितं न त्वमुनेति पृष्टं च पुनरनेन हर्षोत्फुल्लनयनयुगलेन-क | तर्ह्यसाविति कथितमारघट्टिकेन -देव ! मदीयवाटिकायां, एतच्चाकर्ण्य प्रचलितः सबलवाहनः सकलान्तःपुरसमन्वितश्च तद्दर्शनाय, प्राप्तस्तदुद्यानं, दृष्टो मुनिः, वन्दितः सबहुमानं, उपवेशितश्चैकासने, पप्रच्छतुः परस्परमनामयं कथयामासतुश्च यथाखमनुभूतसुखदुःखफलविपाकं, तत्कथनानन्तरं च वर्णिता निजसमृद्धिश्चक्रवर्त्तिना, प्ररूपितस्त| द्विपाकदर्शनतस्तत्परित्यागश्चित्रयतिना, एतावानेव प्रस्तुताध्ययनसूत्रस्यार्थोऽभिधेय इति सूत्रनिर्युक्तिगाथयोर्भा - वार्थः । सम्प्रति यदुक्तं - 'सुखदुःखफलविपाकं तौ कथयामासतुरिति, तत्र चक्रवर्त्ती यथा कथयामास तथा संब|न्धपुरस्सरमाह anant महिड्डीओ, बंभदत्तो महायसो । भायरं बहुमाणेण, इमं वयणमब्बवी ॥ ४ ॥ आसिमो भायरा दोsवि, अन्नमन्नवसाणुगा । अन्नमन्नमणूरत्ता, अन्नमन्नहि एसिणो ॥ ५ ॥ For Personal & Private Use Only ainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy