________________
उत्तराध्य.
बृहद्वृत्तिः
॥३८३ ॥
दासा दसन्नये आसी, मिआ कालिंजरे नगे । हंसा मयंगतीराए, सोवागा कासिभूमिए ॥ ६ ॥ देवाय देवलोगंमि, आसि अम्हे महिडिआ । इमा णो छट्टिया जाई, अन्नमन्त्रेण जा विणा ॥ ७ ॥ चक्रवर्ती 'महर्द्धिकः' बृहद्विभूतिर्ब्रह्मदत्तो महायशाः 'भ्रातरं ' जन्मान्तरसोदर्य ' बहुमानेन' मानसप्रतिबन्धेन ' इदं' वक्ष्यमाणलक्षणं 'वचनं' वाक्यं 'अब्रवीद्' इत्युक्तवान्, यथा 'आसिमो'त्ति अभूवावां भ्रातरौ द्वावपि 'अन्योऽन्यं' परस्परं 'वसाणुग'त्ति वशम् - आयत्ततामनुगच्छन्तौ यो तावन्योऽन्यवशानुगौ, तथा 'अन्योऽन्यमनुरक्तौ' अतीव स्नेहवन्तौ, तथा अन्योऽन्यहितैषिणौ' परस्परशुभाभिलाषिणौ, पुनः पुनरन्योऽन्यग्रहणं च तुल्यचित्ततातिशयख्यापनार्थ, मकारश्च सर्वत्रालाक्षणिकः । केषु पुनर्भवेष्वित्थमावामभूवेत्याह- दासौ 'दशार्णे' दशार्णदेशे 'आसि'त्ति अभूव, मृगौ 'कालिअरे' कालिञ्जरनाम्नि नगे, हंसौ 'मृतगङ्गातीरे' उक्तरूपे, 'वपाकौ' चाण्डालौ 'कासिभूमिति काशीभूम्यां काश्यभिधाने जनपदे, देवौ च देवलोके सौधर्माभिधानेऽभूव 'अहो' त्ति आवां महर्द्धिकौ, न तु किल्विपिको, 'इमा मे'त्ति 'इमा णो' त्ति वा उभयत्रेयमावयोः षष्ठयेव पष्ठिका जातिः कीदृशी येत्याह - 'अन्नमनेणं' ति अन्योऽन्येन परस्परेण या विना, कोऽर्थः ? - परस्परसाहित्यरहिता, वियुक्तयोर्यकेति भाव इति सूत्रचतु - | टयार्थः ॥ इत्थं चक्रवर्त्तिनोक्ते मुनिराह
कम्मा नियाण पगडा, तुमे राय ! विचिंतिया । तसें फलविवागेणं, विप्पओगमुवागया ॥ ८ ॥
Jain Education International
For Personal & Private Use Only
चित्रसंभू
तीयाध्य
१३
॥३८३॥
www.jainelibrary.org