________________
उत्तराध्य.
बृहद्वृत्तिः
॥३८२ ॥
'धर्म' यतिधर्म क्षान्त्यादिकं 'श्रुत्वा' आकर्ण्य 'प्रत्रजितः ' प्रव्रज्यां प्रतिपन्नवान् इति सूत्रभावार्थः ॥ ततः किमित्याह
I
कंपिल्लंमि अ नयरे समागया दोऽवि चित्तसंभूया । सुहदुकखफल विवागं कहिंति ते इक्कमिक्कस्स ॥ ३ ॥ काम्पिल्ये च नगरे - ब्रह्मदत्तोत्पत्तिस्थाने 'समागतौ' मिलितौ द्वावपि चित्रसंभूतौ जन्मान्तरनामतः 'सुखदुःखफलविपाक' सुकृतदुष्कृतकर्मानुभवरूपं 'कहंति' त्ति कथयतः स्मेति शेषः, ततश्च कथितवन्तौ तौ चित्रजीवयति - ब्रह्मदत्तौ ' एकमेकस्स' त्ति एकैकस्य परस्परमितियावत् इति सूत्राक्षरार्थः ॥ भावार्थस्तु निर्युक्तिकृतोच्यतेजाईइ पगास निवेयणं च जाईपयासणं चित्ते । चित्तस्स य आगमणं इड्डिपरिचागसुतत्थो ॥ ३५५ ॥ तदा हि ब्रह्मदत्तो जातिस्मरणोपलब्धस्वजातीनां 'दासा दसन्नये आसी' इत्यादिना सार्द्धश्लोकेन जनाय प्रका शनं निवेदनं च य इमं द्वितीयश्लोकं पूरयति राज्यार्द्धमहं प्रयच्छामीति विहितवान्, ततस्तदर्थिना जनेनोद्धुव्यते, तद् ग्रामनगराकारादिषु पठ्यमानं चाकर्णितं कण्यपकर्ष्या चित्रजीवयतिना, ततस्तथाविधज्ञानातिशयोपयोगतः स्वजातीरुपलभ्य जातोऽस्याभिप्रायो यथा - गत्वा तं जन्मान्तरनिजभ्रातरं संभूतजीवमवबोधयामीति, प्रस्थितस्ततः स्थानात् प्राप्तः क्रमेण काम्पिल्यं, स्थितस्तद्वहिरुद्याने, श्रुतश्चारघट्टिकपरिपठ्यमानः सार्द्धश्लोकः, पूरितश्चानेन द्वितीयश्लोकः, अवधारितश्चारघट्टिकेन, धावितश्चासौ नृपसकाशं राज्य लोभेन, पठितं चैतेन तत्पुरतः,
Jain Education International
For Personal & Private Use Only
चित्रसंभू
तीयाध्य.
१३
॥३८२ ॥
www.jainelibrary.org