SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ प्रत्यन्तराजानः, समुत्पन्नं चक्ररलं, प्रारब्ध स्तदुपदर्शितमार्गेण दिग्विजयः, प्राप्तः काम्पिल्ये, निर्गतस्तदभिमुखं दीर्घपृष्ठो, लग्नमनयोरायोधनं, विनिपातितोऽसौ ब्रह्मदत्तेन, एवं च बोद्धव्यस्तस्य दीर्घपृष्ठविषयरोषमोक्षश्च, अत्रान्तरे मिलिताः परिणीतकन्यापितरः समुत्पन्नानि च यथाऽवसरं शेपरलानि, साधितं षट्खण्डमपि भरतं प्राप्ताश्च नवापि निधयः, परिणतं चक्रवर्त्तिपदं, एवं च सुकृतफलमुपभुञ्जतोऽतिक्रान्तः कियानपि कालः, अन्यदा चोपनीतं देव - तया मन्दारदाम, समुत्पन्नं तद्दर्शनादस्य जातिस्मरणं - अनुभूतानि मयैवंविधकुसुमदामानि, अहं हि नलिनगुल्मवि - माने देवोऽभवं ॥ इत्येकादशनिर्युक्तिगाथार्थः । इत्थं तावत्काम्पिल्ये संभूतश्चक्रवर्त्ती जातः, चित्रस्य तु का वार्त्तेत्याह चित्तो पुण जाओ पुरिमतालंमि । सिट्ठिकुलंमि विसाले धम्मं सोऊण पव्वइओ ॥ २ ॥ पादत्रयं, चित्रः पुनर्जातः पुरिमताले, स हि चित्रनामा महर्षिः तत्र संभूतिनाम्नि भ्रातरि तथाऽनशनं प्रतिपन्नवत्यहो दुरन्तो मोहश्चित्रा कर्मपरिणतिश्चञ्चलं चित्तमित्यादि विचिन्त्य चतुर्विधमप्याहारं प्रत्याख्यातवान्, मृत्वा | च पण्डितमरणेन समुत्पन्नस्तत्रैव नलिनगुल्मनानि विमाने, ततस्तत्र स्वस्थितिमनुपाल्योत्पन्नः पुरिमतालपुरे, तत्रापि | क्वेत्याह- 'श्रेष्ठिकुले' वणिक्रप्रधानान्वये 'विशाले' विस्तीर्णे पुत्रपौत्रादिवृद्धिमति, प्राप्तवयाश्च तथाविधस्थविरसन्निधौ Jain Education Intonal For Personal & Private Use Only Mainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy