SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥३८० ॥ बाघते मां तृद, तदुपाहर कुतोऽपि जलम्, अत्रान्तरे दृष्टोऽनेन निटकवर्त्ती वटपादपः, शायितस्तत्र शीतलच्छाये तत्पल्लवोपरचितश्रस्तरे ब्रह्मदत्तः कृतश्च वरधनुना तेन सह सङ्केतः - यथा यदि मां कथञ्चिद्दीर्घप्रहितपुरुषाः प्राप्स्यन्ति ततोऽहमन्योक्त्याऽभिज्ञानं करिष्ये, तत इतस्त्वया पलायितव्यमिति, गतोऽसौ जलान्वेषणाय, दृष्टं चैकत्र | पद्मिनीखण्डमण्डितं सरः, गृहीतं च पद्मिनीपत्रपुटके जलं, प्रवृत्तस्य च ब्रह्मदत्ताभिमुखमागन्तुं ग्रहणं तद्वटासन्न - देशे, कथञ्चिदुपलब्धतदपसरण वृत्तान्तैर्दीर्घपृष्ठप्रहित पुरुषैरतिरोषवद्भिर्वरधनोर्वन्धनं वल्लीवितानेन आक्रोशनं चैव | दुष्टवचसा कृतं । अन्यच - स हन्यते मुष्टिप्रहारादिभिरमात्यो - वरधनुः, भण्यते च - यथा 'देही'ति ढौकय कुमारमरे ! दुराचार ! व पुनरसौ नीतस्त्वया राजपुत्र इति १, अत्रान्तरे सङ्केतमनुसरता पठितमिदमनेन - 'सहकारमञ्जरीमनुधावति मधुपो विमुच्य मधु मधुरम् । कमले कलयन् पश्चात्सङ्कोचकृतां खतनुवाधाम् ॥ १ ॥' 'गुलीयविरेयणपीतो 'ति प्राकृतत्वात्पीत विरेचनगुलिकः, स हि तैर्ग्रहीतुमुपक्रान्तोऽन्यथाऽऽत्मनो विमुक्तिमनवगच्छन् पूर्वलब्धां विरेचनगुटिकां प्रथममेव पयसा पीतवान्, विरक्तश्च तथा, जाताश्च मुखे फेनबुदबुदाः, एवं च कपटेन मृतः कप - टमृतो मृत इति 'छर्दितः' त्यक्तस्तैः । इतश्च तत्पठितं श्रुत्वा कुमारो 'भीतः' इति त्रस्तः 'अर्थ' अनन्तरम् ' उप्प - हं'ति उत्पथेन 'पलायित्थ'त्ति पलायितवान्, तथा च तं पलायमानमवलोक्य कृत्वा स्थविररूपं देवः किमस्य सत्त्वमस्त्युत नेति परीक्षणार्थं 'वाहेसिअ 'त्ति वाहितवान् व्यंसितवानित्यर्थः कुमारं । ततश्च परिभ्रमतो वटपुरकं Jain Education International For Personal & Private Use Only चित्रसंभू तीयाध्य. १३ ॥३८०॥ www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy