________________
| तस्माच्च ब्रह्मस्थलकं वटस्थलकं चैव भवति विश्रामविषयः कौशाम्बी वाराणसी राजगृहं गिरिपुरं मथुरा अहिच्छत्रा च । ततोऽपि गच्छताऽरण्यानीं प्रविष्टेन दृष्टास्तापसाः, प्रत्यभिज्ञातश्च तैर्ब्रह्मराजस्यास्मन्निजकस्य सुत इति, धृतश्चातुर्मासीं तत्र च तापसकुमारकैः सह क्रीडतैकस्मिन् दिनेऽवलोकितो वनहस्ती, समुत्पन्नं च नृपसुतसुलभमस्य कुतूहलं, प्रारब्धश्च विविधगजशिक्षाभिरमुं खेदयितुं, आरूढश्च निष्पन्दीकृत्य तत्पृष्ठं, प्रवृत्तश्चासौ कुमारापहरणाय, वीक्षितश्च कियदपि दूरं गतेनैकस्तरुः, लग्नश्च तदधो व्रजति हस्तिनि विटपैकदेशे कुमारः, अपक्रान्ते च करिणि ततस्तरोरुत्तीर्य विमूढदिग्भागो भ्रमितुमारेभे भ्रम्यंश्चारण्याद्विनिर्गत्य गतो वटपुरं, वटपुराच्च प्रस्थितः श्रावस्तिं गच्छंश्च प्राप्तस्तथाविधमेकमन्तरा ग्रामं, उपविष्टश्च तन्निकटविटपिनि विश्रमितुं दृष्टश्चैकेन तत्रत्यश्रेष्ठिना, नीतश्च तेन स्वं गृहं कृतं चाभ्यागतकर्त्तव्यं, परिणायितश्च नैमित्तिकादेशतः खदुहितरं, उपचरितश्च भुजगनि - मकसदृशैर्विविधवसनैर्लभेन्द्रनीलादिप्रधानमणिभिः कटककेयूरकुण्डलादिभिश्चाभरणैः, ततस्तद्गुणलुब्धमानसः स्थितस्तत्रैव कियत्कालं, जनयति तदा तद्दुहितरि कुमारं । इतश्च प्राप्ताः कृतान्तानुकारिणो दीर्घपृष्ठप्रहित पुरुषाः, प्रारब्धाः समन्ततस्तमवलोकितुं, उपलब्धतद्वृत्तान्तश्च नष्टस्तद्भयात्, प्रचलितश्च सुप्रतिष्ठपुराभिमुखं गन्तुं तत्र च मिलितः कश्चिद्विटः कार्पटिको दृष्टं चाभिमुखमागच्छत् किञ्चित् तथाविधं मिथुनकं दृष्ट्वा च तदङ्गनां उदाररूपां कुमारमयमवोचत् - यदि युष्मत्प्रसादतः कथञ्चिदेनां कामयेय इति, ततस्तदुपरोधात्तेनोक्तं प्रविश तर्हि वंशीकुडतं,
Jain Education International
For Personal & Private Use Only
www.ainelibrary.org