SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः उत्तराध्य. प्रतिपाल्य च प्रव्रज्यामपगतमलकलङ्कोऽपवर्गमगमत् । अन्यदा च सागरचन्द्राचार्या बहुशिष्यपरिवृतास्तत्रागताःचित्रसंभूनिर्गतश्च मुनिचन्द्रनृपतिस्तद्वन्दनाय, दृष्टाश्चानेन सूरयः, स्तुत्वा च तानुपविष्टस्तदन्तिके, श्रुतश्च तत्कथितो विशु तीयाध्य. तद्धधर्मः, समुत्पन्नश्चास्य तत्करणाभिलाषः, ततः खसुतं राज्ये निवेश्य प्रतिपन्नोऽसौ श्रामण्यं, गृहीता चानेन ग्रहणा-8| ॥३७५॥ सेवनोभयलक्षणा शिक्षा, प्रवृत्ताश्चान्यदा सुसार्थेन सगच्छाः सागरचन्द्रसूरयोऽध्यानं, मुनिचन्द्रमुनिश्च तैः समं । व्रजन् गुरुनियोगादेकाक्येव भक्तपाननिमित्तं क्वचित्प्रत्यन्तग्रामे प्राविशत्, प्रविष्टे चास्मिन् प्रवृत्तः सार्थो गन्तुं, प्रचलिताः सहानेन सूरयो, विस्मृतश्चायमेषां, प्रस्थितश्च क्षणान्तरेण गृहीतभक्तपानस्तदनुमार्गेण, पतितश्च मूढदिक्-18 चक्रवालः सार्थगवेषणापरो, मार्गात्परिभ्रष्टो भ्रमदनेकशार्दूलजालां द्विपकदम्बकभज्यमानशालशल्लकीप्रभृतितरुनिकरामनर्वापारतया च संसारानुकारिणीं विन्ध्याटवीं, तत्र चासौ परिभ्रमन् गिरिकन्दराण्यतिक्रामन्नतिनिम्नोनतभूभागान् पश्यन् भयानकानेकद्वीपितरक्षाच्छभलादिश्वापदान् उत्तीर्णस्तृतीयदिने, तदा च क्षुत्क्षामकुक्षिः शुष्कोष्ठकण्ठतालुरेकत्र वृक्षच्छायायां मूविशनष्टचेष्टो दृष्टश्चतुर्भिर्गोपालदारकैः, उत्पन्ना अमीषामनुकम्पा, सिक्तस्त्वरि-5 तमागत्य गोरसोन्मिश्रतिजलेन, पायितोऽसौ तदेव, समाश्वस्तश्च नीतो गोकुलं, प्रतिजागरितश्च तत्कालोचित-2॥३७५॥ ६ कृत्येन, प्रतिलाभितः प्रासुकान्नादिना, कथितस्तेषामनेन जिनप्रणीतधर्मः, गृहीतश्चायमेतैर्भावगर्भ, गतश्चासौ विव-2 है क्षितस्थानं, तं च मलदिग्धदेहमवलोक्य द्वयोः समजनि जुगुप्सा, तदनुकम्पातः सम्यक्त्वानुभावतश्च निर्वर्त्तितं || Bain Education Internasional For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy