SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ TRACOCCASSE0%EXY चतुर्भिरपि देवायुः, जग्मुश्च देवलोकं, ततश्युतौ चाकृतजुगुप्सौ तु कतिचिद्भवान्तरितौ द्वाविषुकारपुरे द्विजकुले | जातो, तद्वक्तव्यता च इषुकारीयनाम्यनन्तराध्ययनेऽभिधास्यते, यौ च द्वौ जुगुप्सको तौ दशार्णजनपदे ब्राह्मणकुले दासतयोत्पन्नौ, तयोश्च य इह ब्रह्मदत्तो भविष्यति तेनात्राधिकारो, निदानस्यैवात्र वक्तुमुपक्रान्तत्वात्तेनैव च तद्विधानाद, द्वितीयस्य तु प्रसङ्गत एवाभिधीयमानत्वात् , इह च नामनिष्पन्ननिक्षेपे प्रस्तते प्रसङ्गतोऽर्थाधिकारोऽप्युक्त इति गाथात्रयभावार्थः । उक्तो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पन्नस्यावसर इति सूत्रमुच्चारणीयं, तच्चेदम् जाईपराजिओ खलु कासि नियाणं तु हथिणपुरंमि । चुलणीइ बंभदत्तो उववन्नो नलिण (पउम) गुम्माओ॥१॥ 'जातिपराजितः' इति जात्या-प्रस्तावाचाण्डालाख्यया पराजितः-अभिभूतः, स हि वाराणस्यां हस्तिनागपुरे च वक्ष्यमाणन्यायतो नृपेण नमुचिनाम्ना च द्विजेन चाण्डाल इति नगरनिष्कासनन्यक्कारादिना पुरा जन्मन्यपमानित इत्येवमुक्तः, यद्वा जातिभिः-दासादिनीचस्थानोत्पत्तिभिरुपयुपरिजाताभिः पराजित इति-पराभवं मन्यमानोऽहो! अहमधन्यो यदित्थं नीचाखेव जातिषु पुनः पुनरुत्पन्न इति, 'खलुः' वाक्यालङ्कारे, स चैवंविधः किमित्याह|'कासि'त्ति अकार्षीत् , किमित्याह-निदान' चक्रवर्तिपदावाप्तिर्मम भवेदित्येवमात्मकं 'तुः' पूरणे, केदं कृतवान् ? इत्याह-हत्थिणपुरंमि'त्ति हस्तिनागपुरे, चुलन्यां ब्रह्मदत्तः 'उववण्णोति उत्पन्नः 'पद्मगुल्मात्' इति नलिनगुल्मवि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy