SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ जे गिद्धे कामभोगेसु, एगे कूडाय गच्छइ । न मे दिट्टे परे लोए, चक्खुदिहा इमा रती ॥५॥ | व्याख्या-'य'इत्यनिर्दिष्टवरूपो गृद्धः, काम्यन्त इति कामाः भुज्यन्त इति भोगाः ततश्च कामाश्च ते भोगाश्च कामभोगाः तेषु-अभिलषणीयशब्दादिषु, यद्वा कामौ च शब्दरूपाख्यो भोगाश्च स्पर्शरसगन्धाख्याः कामभोगाः तेषु, उक्तं हि-"कामा दुविहा पण्णत्ता-सदा रूवा य, भोगा तिविहा पण्णत्ता, तंजहा-गंधा रसा फासा य"त्ति, है। एकः' कश्चित् क्रूरकर्मा तन्मध्यात् कूटमिव कूट-प्रभूतप्राणिनां यातनाहेतुत्वान्नरक इत्यर्थः, यथैव हि कूट-४ निपतितो मृगो व्याधरनेकधा हन्यते, एवं नरकपतितोऽपि जन्तुः परमाधार्मिकैरिति, तस्मै कूटाय, गत्यर्थकर्मणि द्वितीयाचतुर्था (पा०२-३-१२) वित्यादिना चतुर्थी, 'गच्छति' याति, यद्वा यो गृद्धः 'कामभोगेष्विति कामेषुस्त्रीसङ्गेषु भोगेषु-धूपनविलेपनादिषु स 'एकः सुहृदादिसाहाय्यरहितः कूटाय गच्छति, अथवा कूटं द्रव्यतो भावतश्च, तत्र द्रव्यतो मृगादिबन्धनं, भावतस्तु मिथ्याभाषणादि, तस्मै गच्छतीत्यनेकार्थत्वात् प्रवर्तते, स हि मांसादिलोलुपतया मृगादिवन्धनान्यारभते, मिथ्याभाषणादीनि चासेवत इति, प्रेरितश्च कैश्चिद्वदति-'न में'इति न मया | 'दृष्टः' अवलोकितः, कोऽसौ ?-परलोको' भूतभाविजन्मात्मकः, कदाचिद्विषयाभिरतिरप्येवंविधैव स्यादत आहचक्षुषा-लोचनेन दृष्टा-प्रतीता चक्षुदृष्टा 'इय'मिति तामेव प्रत्यक्षां निर्दिशति, रम्यतेऽस्यामिति रतिः-स्पर्शनादि१ कामा द्विविधाः प्रज्ञप्ताः-शब्दा रूपाणि च, भोगास्त्रिविधाः प्रज्ञप्ताः, तद्यथा—न्धा रसाः स्पर्शाश्च । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy