________________
अकाम
उत्तराध्य. बृहद्वत्तिः
मरणाध्य.
॥२४२॥
मन्ये मरणमनपराधवृत्तीनाम् ॥१॥" न तु परमार्थतः तेषां सकाम-सकामत्वं, मरणाभिलाषस्थापि निषिद्धत्वाद्, उक्तं हि-"मा मा हु विचिंतेजा जीवामि चिरं मरामि य लहुँति । जइ इच्छसि तरिउं जे संसारमहोदहिमपारं ॥१॥"ति, तुः पूर्वापेक्षया विशेषद्योतकः, तच 'उत्कर्षण' उत्कर्षापलक्षितं, केवलिसम्बन्धीत्यर्थः, अकेवलिनो हि संयमजीवितं दीर्घमिच्छेयुरपि, मुक्त्यवाप्तिः इतः स्यादिति, केवलिनस्तु तदपि नेच्छन्ति, आस्तां भवजीवितमिति, तन्मरणस्योत्कर्षेण सकामता ‘सकृद्' एकवारमेव भवेत् , जघन्येन तु शेषचारित्रिणः सप्ताष्ट वा वारान् भवेदित्याकूतमिति सूत्रार्थः॥३॥ यदुक्तं-स्त इमे द्वे स्थाने' तत्राद्यं तावदाह
तथिमं पढमं ठाणं, महावीरेण देसियं । कामगिद्धे जहा बाले, भिसं कूराणि कुव्वति ॥४॥ व्याख्या-तत्रेति तयोरकाममरणसकाममरणाख्ययोः स्थानयोर्मध्ये 'इदम्' अनन्तरमभिधास्यमानरूपं 'प्रथमम्' आद्यं स्थानं, 'महावीरेणे ति चरमतीर्थकृता, 'तत्रैको महाप्रज्ञः' इति मुकुलितोक्तेरभिव्यक्त्यर्थमेतत् , 'देशितं'
प्ररूपितं, किं तत् इत्याह-'कामेषु' इच्छामदनात्मकेषु 'गृद्धः' अभिकाङ्क्षावान् कामगृद्धो 'यथा' इत्युपप्रदर्शनार्थः, द'बाल' इत्युक्तरूपो 'भृशम्' अत्यर्थे 'क्रूराणि' रौद्राणि, कौणीति गम्यते, तानि च प्राणव्यपरोपणादीनि 'कुछ
ति'त्ति करोति-क्रिययाऽभिनिवर्तयति, शक्तावशक्तावपि क्रूरतया तन्दुलमत्स्यवन्मनसा कृत्वा च प्रक्रमादकाम एव म्रियते इति सूत्रार्थः ॥ ४ ॥ इदमेव ग्रहणकवाक्यं प्रपञ्चयितुमाह
१ मा मैव विचिन्तयेः जीवामि चिरं म्रिये च लघु इति । यदीच्छसि तरीतुं संसारमहोदधिमपारम् ॥ १ ॥
R
॥२४२॥
www.janelibrary.org
For Personal & Private Use Only
Jain Education International