________________
कस्ते-तव 'इदः' नदः?, 'के च ते संतितित्थे'त्ति किं च ते-तव शान्यै-पापोपशमननिमित्तं तीर्थ-पुण्यक्षेत्र शान्ति-| तीर्थम् , अथवा 'कानि च' किंरूपाणि 'ते' तव 'सन्ति' विद्यन्ते 'तीर्थानि' संसारोदधितरणोपायभूतानि, लोकप्रसिद्वतीर्थानि हि त्वया निषिद्धानीति, तथा च 'कर्हिसि हाओ वे' ति वाशब्दस्य भिन्नक्रमत्वात्कस्मिन् वा स्नातःशुचिर्भूतो रज इव रजः-कर्म जहासि-त्यजसि त्वं?, गम्भीराभिप्रायो हि भवांस्तत् किमस्माकमिव भवतोऽपि इदतीर्थ एव शुद्धिस्थानमन्यद्वेति न विद्म इति भावः, 'आचक्ष्व' व्यक्तं वद संयत ! यक्षपूजित ! 'इच्छामः' अभिलषामो 'ज्ञातुम्' अवगन्तुं 'भवतः तव 'सकाशे' समीपे इति सूत्रार्थः ॥ मुनिराह
धम्मे हरए बंभे संतितित्थे, अणाविले अत्तपसन्नलेसे। जहिं सि पहाओ विमलो विसुद्धो, सुसीइओ पजहामि दोसं ॥४६॥ एयं सिणाणं कुसलेण दिटुं, महासिणाणं इसिणं पसत्थं । जहिं सि पहाया विमला विसुद्धा, महारिसी उत्तमं ठाणं पत्ति॥४७॥ त्तिबेमि
इति हरिकेशीयं बारसमं अज्झयणं सम्मत्तं ॥ १२॥ _ 'धर्मः' अहिंसाद्यात्मको ह्रदः कर्मरजोऽपहन्तृत्वाब्रह्मेति-ब्रह्मचर्य शान्तितीर्थ, तदासेवनेन हि सकलमलमूलं 8 रागद्वेषावुन्मूलितावेव भवतः, तदुन्मूलनाच न कदाचिन्मलस्य सम्भवोऽस्ति, सत्याधुपलक्षणं चैतत्, तथा चाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org