SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥३७२ ॥ तवो जोई जीवो जोइठाणं, जोगा सुया सरीरं कारिसंगं । कम्म एहा संजमजोग संती, होमं हुणामी इसिणं पसत्थं ॥ ४४ ॥ 'तपो' बाह्याभ्यन्तरभेदभिन्नं 'ज्योतिः' अग्निः, यथा हि ज्योतिरिन्धनानि भस्मीकरोत्येवं तपोऽपि भावेन्धनानि - कर्माणि, जीवो - जन्तुर्ज्योतिः स्थानं, तपोज्योतिषस्तदाश्रयत्वात्, युज्यन्ते - सम्बन्ध्यन्ते खकर्म्मणेति योगाः - मनोवाक्कायाः श्रुवः, ते हि शुभव्यापाराः स्नेहस्थानीयाः, तपोज्योतिषो ज्वलनहेतुभूताः तत्र संस्थाप्यन्त इति, शरीरं करीषाङ्ग, तेनैव हि तपोज्योतिरुद्दीप्यते, तद्भावभावित्वात्तस्य, 'कर्म' उक्तरूपं एधास्तस्यैव तपसा भस्मीभावनयनात्, 'संजमजोग' त्ति संयमयोगाः - संयमव्यापाराः शान्तिः सर्वप्राण्युपद्रवापहारित्वात्तेषां तथा 'होम'न्ति होमेन जुहोति तपोज्योतिरिति गम्यते, ऋषीणां मुनीनां सम्बन्धिना 'पसत्थं' ति प्रशस्तेन जीवोपघातरहितत्वेन विवे| किभिः श्लाघितेन सम्यक्चारित्रेणेति भावः, अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थः ॥ तदेतेन 'किं माहना जोइसमा रहंता' इत्यादिना लोकप्रसिद्धयज्ञानां स्नानस्य च निषिद्धत्वाद्यज्ञस्वरूपं तैः पृष्टं कथितं |च मुनिना ॥ इदानीं स्नानस्खरूपं पिपृच्छिषव इदमाहुः Jain Education International के ते हरए के य ते संतितित्थे ?, कहंसि पहाओ व रयं जहासि ? | आयक्ख णे संजय जक्खपूइया, ! इच्छामु नाउं भवओ सगासे ॥ ४५ ॥ For Personal & Private Use Only हरिकेशी यमध्यय नम्. १२ ॥ ३७२ ॥ www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy