SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ SISTERSTAATSKAPER त्याह-'जण्णसेटंति प्राकृतत्वाच्छ्रेष्ठयज्ञ, श्रेष्ठवचनेन चैतद्यजन एव खिष्टं कुशला वदन्ति, एप एव च कर्मप्रणो दनोपाय इत्युक्तं भवतीति सूत्रार्थः ॥ यदीगुणः श्रेष्ठयज्ञं यजते अतस्त्वमपीटग्गुण एव, तथा च तं यजमानस्य 5 कान्युपकरणानि को वा यजनविधिरित्यभिप्रायेण त एवमाहुः के ते जोई के व ते जोईठाणा?, का ते सूया किं च ते कारिसंग । एहा य ते कयरा संति भिक्खू !, कयरेण होमेण हुणासि जोइं ॥४३॥ है किं, अयमर्थः-किंरूपं 'ते' तव 'ज्योति'रिति अग्निः 'के व ते जोइठाणे'त्ति किंवा ते-तव ज्योतिःस्थानं यत्र । ज्योतिर्निधीयते, का श्रुवो ?-घृतादिप्रक्षेपिका दयः, 'किं च'त्ति किं वा करीपः-प्रतीतः स एवाङ्गम्-अयुद्दीपन-2 कारणं करीषाङ्गं येनासौ सन्धुक्ष्यते, एधाश्च-समिधो यकाभिरग्निः प्रज्वाल्यते, 'ते' तव कतरा इति-काः ? 'संति' त्ति चस्य गम्यमानत्वाच्छान्तिश्च-दुरितोपशमनहेतुरध्ययनपद्धतिः कतरेति प्रक्रमो, 'भिक्षु' इति भिक्षो ! कतरेण || है होमेन' हवनविधिना, समेन धावतीत्यादिवत् तृतीया, जुहोषि-आहुतिभिः प्रीणयसि, किं ?-ज्योतिः-अमिम् , षड्जीवनिकायसमारम्भनिषेधेन ह्यस्मदभिमतो होमः तदुपकरणानि च पूर्व निषिद्धानीति कथं भवतो यजनसम्भवः ? इति सूत्रार्थः ॥ मुनिराह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy