________________
कह चरे भिक्खु ! वयं जयामो?, पावाई कम्माई पणुल्लयामो।
अक्खाहि णे संजय जक्खपूइआ, कहं सुजलु कुसला वयंति ॥४०॥ AL 'कथं' केन प्रकारेण 'चरित्ति विभाषा कथमि लिङ् च इति(पा०३-३-१४३)लिङि वचनव्यत्यये वचनव्यत्ययाचरे
महि-यागार्थ प्रवर्तेमहि, हे भिक्षो!-मुने ! वयमित्यात्मनिर्देशः, तथा 'यजामो' यागं कुर्मः, कथमितियोगः, पापानि -अशुभानि कर्माणि पुरोपचिताविद्यारूपाणि 'पणुलयामो'त्ति प्रणुदामःप्रेरयामो, येनेति गम्यते, 'आख्याहि' कथय 'नः' अस्माकं 'संयतः' पापस्थानेभ्यः सम्यगुपरतः 'यक्षपूजित' यक्षार्चित !, किमुक्तं भवति ?-यो ह्यस्मद्विदितः कर्मप्रणोदनोपायत्वेन यागः स युष्माभिर्दूषित इति भवन्त एवापरं यागमुपदिशन्तु, कदाचिदविशिष्टमेव यजनमुप|दिशेदित्याशङ्कयाह-'कथं' केन प्रकारेण 'खिष्टं शोभनं यजनं 'कुशला' उक्तरूपा 'वदन्ति' प्रतिपादयन्ति, 'न तं 'सुदिलु कुसला वयंति'त्ति कुशलमुखेनैव मुनिना दूषितमिति तैरपि तथैव पृष्टमिति सूत्रार्थः ॥ मुनिराह
छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा।
परिग्गहं इत्थिउ माण मायं, एयं परिन्नाय चरंति दंता ॥४१॥ | षड् जीवकायान्-पृथिव्यादीन् 'असमारभमाणा' अनुपमईयन्तः 'मोसंति मृषा अलीकभाषणं 'अदत्तं चेत्यदत्तादानं चानासेवमाना:-अनाचरन्तः परिग्रह-मृच्छी स्त्रियो-योषितो 'माण'त्ति मानम्-अहङ्कारं मायां-परव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org