________________
ROADCACCORDARSANSSOCIRSS RSS
केशश्चासौ मातङ्गत्वेन प्रसिद्धत्वात् साधुश्च यतित्वाद्धरिकेशसाधुः, पठ्यते च-'सोवागपुत्तं हरिएससाहुन्ति, अत्र च । ७/पश्यतेति शेषः, कदाचिदन्य एव कश्चिदत आह-यस्येदृशी-दृश्यमानरूपा ऋद्धिः-देवसन्निधानात्मिका सम्पत् महानु-21 ४ भागा-सातिशयमाहात्म्या, जातिविशेषे हि सति सर्वोत्तमत्वाद्राह्मणजातेस्तद्वतामस्माकमेव देवा वैयावृत्त्यं कुर्यु-18 है रिति भाव इति सूत्रार्थः ॥ साम्प्रतं स एव मुनिस्तानुपशान्तमिथ्यात्वमोहनीयोदयानिव पश्यन्निदमाह
__किं माहणा! जोइसमारभंता, उद्एण सोहिं बहिया विमग्गहा ।
जं मग्गहा बाहिरियं विसोहिं, न तं सुदिडं कुसला वयंति ॥ ३८ ॥ | 'कि'मिति क्षेपे, ततो न युक्तमिदं, यत् 'माहना' ब्राह्मणा ! 'ज्योतिः' अमिं 'समारभमाणाः' प्रस्तावाद्यागकर-2 ६णतः प्रवर्त्तमानाः, यागं कुर्वन्त इत्यर्थः, 'उदकेन' जलेन 'सोहि ति शुद्धिं निर्मलतां 'वहिय'त्ति बाह्यां, कोऽर्थो ?-8
वाह्यहेतुका, यागं हि समारभमाणैर्जलेन या शुद्धिार्यते तत्र यागनाने एव तत्त्वतो हेतुत्वेनेष्टे, ते च भवदभिमते बाह्ये एवेति 'विमार्गयथ' विशेषेणान्वेषयथ, किमेवमुपदिश्यत इत्याह-यद्यूयं मार्गयथ बाह्यां-बाह्यहे-12 तुकां विशुद्धिं, न तत् सुदृष्ट-सुष्ठु प्रेक्षितं 'कुशलाः' तत्त्वविचारं प्रति निपुणा 'वदन्ति' प्रतिपादयन्तीति सूत्रार्थः ॥ यथा चैतत् सुदृष्टं न भवति तथा खत एवाह
Jain Education
For Personal & Private Use Only
w.jainelibrary.org