________________
अथवा अर्चयामस्ते इति सुब्व्यत्ययात्त्वाम् , अनेन खतस्तस्य पूज्यत्वमुक्तं, उत्तरेण तु तत्खामित्वमपि पूज्यताहेतुरिति, द तथा भुझेतो गृहीत्वेति गम्यते 'शालिम'न्ति शालिमयं, कोऽर्थः ?-शालिनिष्पन्नं 'कूरम्' ओदनं नानाव्यजनैः-अनेकप्रकारैर्दध्यादिभिः संयुतं-सम्मिश्रं नानाव्यञ्जनसंयुतं, न त्वेकमेवेति सूत्रार्थः ॥ अन्यच
इमं च मे अत्थि पभूयमन्नं, तं भुंजसू अम्ह अणुग्गहहा। वाढति पडिच्छइ भत्तपाणं, मासस्स ऊ पारणए महप्पा
मासस्स ऊ पारणए महप्पा ॥ ३५ ॥ | 'इदं च' प्रत्यक्षत एव परिदृश्यमानं 'मे'ममास्ति-विद्यते 'प्रभूतं'प्रचुरमन्नं-मण्डकखण्डखाद्यादि समस्तमपि भोजनं, . यत्प्राक् पृथगोदनग्रहणं तत्तस्य सर्वान्नप्रधानत्वख्यापनार्थ, तद्भुङ्खास्माकमनुग्रहार्थ-चयमनुगृहीता भवाम इति हेतोः,
एवं च तेनोक्ते मुनिराह-'बाढम्' एवं कुर्म इतीत्येवं ब्रुवाण इति शेषः, 'प्रतीच्छति' द्रव्यादितः शुद्धमिति गृह्णाति, ४ दू भक्तपानमुक्तरूपं, ‘मासस्स उ'त्ति मासादेव, यद्वा अन्त इत्यध्याहियते, ततश्च मासस्यैवान्ते यत्पार्यते-पर्यन्तः क्रियते ।
गृहीतनियमस्थानेनेति पारणं तदेव पारणकं, भोजनमित्युक्तं भवति, तस्मिन्-तन्निमित्तं, 'निमित्तात्कर्मसंयोगे । सप्तमीति' (पा.२-३-३६ वार्त्तिकम् ) सप्तमी, माहात्म्येति प्राग्वत् इति सूत्रार्थः॥ तदा च तत्र यदभूत्तदाह
तहियं गंधोदयपुप्फवासं, दिव्वा तहिं वसुहारा य वुट्ठा । पहया दुंदुहीओ सुरेहिं, आगासे अहोदाणं च घुटुं॥३६॥
Jain Education Internation
For Personal & Private Use Only
www.jainelibrary.org