SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ तेजसैकतस्तेषाम् ॥१॥" तथा लौकिका अप्याहुः-“न तत् दूरं यदश्वेषु, यवाग्नौ यच्च मारुते । विषे च रुधिरप्रासे, साधौ च कृतनिश्चये ॥१॥” इति सूत्रत्रयार्थः ॥ सम्प्रति तत्पतिस्तान् यादृशान् ददर्श दृष्ट्वा च यदचेष्टत तदाह अवहेडियपिढिसउत्तमंगे, पसारियाबाहुअकम्मचिढ़े। निम्भेरियच्छे रुहिरं वमंते, उहूंमुहे निग्गयजीहनित्ते ॥२९॥ ते पासिया खंडिय कट्टभूए, विमणो विसन्नो अह माहणो सो। इसिं पसाएइ सभारियाओ, हीलं च निंदं च खमाह भंते!॥ ३०॥ | 'अवे'त्यधो 'हेडिय'त्ति हेठितानि-बाधितानि, किमुक्तं भवति ?-अधोनामितानि, पठन्ति च 'आयडिए'त्ति | तत्र सूत्रत्वादवकोटितानि-अधस्तादामोटितानि पट्टित्ति पृष्ठं यावत् तदभिमुखं वा सन्ति-शोभनान्युत्तमाङ्गानि । येषां ते अवहेठितपृष्ठसदुत्तमाङ्गाः अवकोटितपृष्ठसदुत्तमाङ्गौवा, प्राग्वन्मध्यपदलोपी समासस्तान् , 'पसारियाबाहु1 अकम्मचिट्ठत्ति प्रसारिता-विरलीकृता वाहवो-भुजा यैर्येषां वा ते तथा ततस्ते च ते अकर्मचेष्टाश्च-अविद्यमान कर्महेतुव्यापारतया प्रसारितवाह्वकर्मचेष्टास्तान् , यद्वा क्रियन्त इति कर्माणि-अग्नौ समित्प्रक्षेपणादीनि तद्विपया चेष्टा कर्मचेष्टेह गृह्यते, 'निभेरियत्ति प्रसारितान्यक्षीणि-लोचनानि येषां ते तथोक्तास्तान् , रुधिरं वमद्उद्गिरत् 'उहुंमुह'त्ति ऊर्ध्वमुखान्-उन्मुखीभूतवान् , अत एव निर्गतानि-निःसृतानि जिह्वाश्च प्रतीता नेत्राणि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy