SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 14 देवस्य-अमरस्याभियोगो-बलात्कारो देवाभियोगस्तेन 'नियोजितेन' व्यापारितेन न त्वप्रियेतिकृत्वा दिना है मुत्ति दत्ताऽस्मि, अहं यस्मै इति गम्यते, दत्ता च केन ?-राज्ञा-प्रक्रमात्कौशलिकेन, तथापि 'मणस'त्ति अपेर्गम्य मानत्वान्मनसापि-चित्तेनापि 'न ध्याता' न चिन्तिता नाभिलषितेतियावत् , प्रक्रमादेतेन मुनिना, कीदृशेन ?नरेन्द्राश्च-नृपतयो देवेन्द्राश्च-शक्रादयो नरेन्द्रदेवेन्द्रास्तैरभि-आभिमुख्येन वन्दितः-स्तुतो नरेन्द्रदेवेन्द्राभिवन्दितस्तेन, अनभिध्याताऽपि नृपोपरोधतः खीकृता स्यादत आह-येनास्म्यहं 'वान्ता' त्यक्ता 'ऋषिणा' मुनिना, स एष युष्माभिर्यः कदर्थयितुमारब्धः, ततो न कदर्थयितुमुचित इति भावः, पुनरिममेवाथ समर्थयितुमाह-एसो हु सो'त्ति, एष एव स न मनागप्यत्र संशयः, उग्रं-उत्कटं दारुणं वा कर्मशत्रन प्रति तपः-अनशनाद्यस्येति उग्रतपाः, |अत एव महान्-प्रशस्यो विशिष्टवीर्योल्लासत आत्मा अस्येति महात्मा, जितेन्द्रियः संयतो (ग्रं० ९०००) ब्रह्म चारी च प्राग्वत्, स इति क ? इत्याह-यो 'मि'त्ति मां 'तदा' तस्मिन् विवक्षितसमये 'नेच्छति' नाभिलपति |'दीयमानां' निसृज्यमानां, केन ?-'पित्रा' जनकेन 'स्वयं आत्मना, न तु प्रधानप्रेषणादिना, तेनापि कीदृशा ?६ कोशलिकेन राज्ञा, न वितरजनसाधारणेन, तदनेन विभूतावपि निःस्पृहत्वमुक्तं, पुनस्तन्माहात्म्यमाह-'महा-४ यसा' अपरिमितकीर्तिः 'एप' प्रत्यक्षो मुनिमहानुभाग:-अतिशयाचिन्त्यशक्तिः, पाठान्तरतो महानुभावो वा, तत्र चानुभावः-शापानुग्रहसामर्थ्य, 'घोरव्रतों' धृतात्यन्तदुर्द्धरमहाव्रतः 'घोरपराक्रमश्च' कषायादिजयं प्रति रो Jain Education For Personal & Private Use Only aniww.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy