________________
Jain Education
| समीपे ये त उपज्योतिषस्त एवोपज्योतिष्काः - अग्निसमीपवर्त्तिनो महानसिका ऋत्विजो वा 'अध्यापकाः' पाठकाः, 'वा उभयत्र वा विकल्पे 'सहे 'ति युक्ताः, कैः ? - 'खण्डिकै : ' छात्रैः, ये किमित्याह - ' एनं' श्रमणकं 'दण्डेन' वंशयष्ट्यादिना 'फलेन' बिल्वादिना 'हंते'ति हत्वा - ताडयित्वा यद्वा 'दण्डेने' ति कूर्पराभिघातेन 'फलेन' च मुष्टिप्रहारेणेति वृद्धाः, ततश्च 'कण्ठे' गले 'गृहीत्वा' उपादाय 'खलेज्ज' त्ति स्खलयेयुः - निष्काशयेयुः, 'यो' त्ति वचनव्यत्ययाद्ये इत्थमेतदभिघाते निष्काशने वा शक्ताः, 'णमिति वाक्यालङ्कारे इति सूत्रार्थः ॥ अत्रान्तरे
यदभूत्तदाह
अज्झायाणं वयणं सुणित्ता, उद्धाइया तत्थ बहू कुमारा ।
दंडेहिं वित्तहिँ कसेहिं चेव, समागया तं इसिं तालयंति ॥ १९ ॥
अध्यापकानाम् - उपाध्यायानाम्, एकत्वेऽपि पूज्यत्वाद्बहुवचनं, 'वचनम्' उक्तरूपं 'श्रुत्वा' आकर्ण्य 'उद्धाविता' वेगेन प्रसृताः 'तत्र' यत्रासौ मुनिस्तिष्ठति 'बहवः' प्रभूताः 'कुमारा' द्वितीय वयोवर्त्तिनश्छात्रादय इति गम्यते, ते हि क्रीडनकपरा इत्यहो क्रीडनक मागतमिति रभसतो 'दण्डैः' वंशयष्ट्यादिभिर्वत्रैः - जलजवंशात्मकैः 'कशैः' वत्रविकारैः चः समुच्चये, एवेति पूरणे, 'समागताः' सम्प्राप्ता मिलिता वा तमृषिं - मुनिं 'ताडयन्ति' घ्नन्ति, सर्वत्र | वर्त्तमाननिर्देशः प्राग्वत् इति सूत्रार्थः ॥ अस्मिंश्चावसरे
For Personal & Private Use Only
jainelibrary.org