________________
EASESARIABAR
भैक्षवृत्तरेव समर्थितत्वात्, तथा च वेदानुवादिनः-"चरेद् माधुकरी वृत्तिमपि म्लेच्छकुलादपि। एकानं नैव मुञ्जीत, बृहस्पतिसमादपि ॥१॥" यदिवोचावचानि-विकृष्टाविकृष्टतया नानाविधानि, तपांसीति गम्यते, उच्चव्रतानि वा शेषव्रतापेक्षया महाव्रतानि ये मुनयश्चरन्ति-आसेवन्ते, न तु यूयमिवाजितेन्द्रिया अशीला वा, तान्येव मुनिलक्षणानि क्षेत्राणि सुपेशलानीति प्राग्वदिति सूत्रार्थः ॥ इत्थमध्यापकं यक्षेण निर्मुखीकृतमवलोक्य तच्छात्राः प्राहुः
अज्झावयाणं पडिकूलभासी, पभाससे किन्न सगासि अम्हं।
अवि एवं विणस्सउ अन्नपाणं, न य णं दाहामु तुम नियंठा! ॥ १६ ॥ | अध्यापयन्ति-पाठयन्तीत्यध्यापकाः-उपाध्यायास्तेषां प्रतिकूल-प्रतिलोमं भाषते वक्तीत्येवंशीलः प्रतिकूलभाषी|४|| सन् प्रकर्षेण भाषसे-ब्रूपे प्रभाषसे, किमिति क्षेपे, "तुरित्यक्षमायां, ततश्च धिग् भवन्तं न वयं क्षमामहे यदित्थं | भवान् ब्रूते सकाशे-समीपे 'अम्ह'ति अस्माकम् , अपिः सम्भावनायां, 'एतत्' परिदृश्यमानं 'विनश्यतु' कथितत्वादिना खरूपहानिमाप्नोतु 'अन्नपानम्' ओदनकाजिकादि, 'न च' नैव 'ण'मिति वाक्यालङ्कारे 'दाहामु'त्ति दास्यामस्तव हे निर्ग्रन्थ !-निष्किञ्चन!, गुरुप्रत्यनीको हि भवान, अन्यथा तु कदाचिदनुकम्पया किञ्चिदन्तप्रान्तादि दद्यामोऽपीति भाव इति सूत्रार्थः ॥ यक्ष आह
Jain Educational
For Personal & Private Use Only
Jainelibrary.org