SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ नासः, अवमानि - असाराणि लघुत्वजीर्णत्वादिना चेलानि - वस्त्राण्यस्येत्यवमचेलकः, पांशुना - रजसा पिशाचवद्भूतो- जातः पांशुपिशाचभूतः, गमकत्वात्समासः, पिशाचो हि लौकिकानां दीर्घश्मश्रुनखरोमा पुनश्च पांशुभिः समविश्वस्त इष्टः, ततः सोऽपि निष्परिकर्म्मतया रजोदिग्धदेहतया चैवमुच्यते, 'संकरे 'ति सङ्करः, स चेह प्रस्तावात्तृणभस्मगोमयाङ्गारादिमीलक उक्कुरुडिकेतियावत् तत्र दुष्यं - वस्त्रं सङ्करदुष्यं तत्र हि यदत्यन्त निकृष्टं निरुपयोगि तल्लो कैरुत्सृज्यते, ततस्तत्प्रायमन्यदपि तथोक्तं, यद्वा उज्झितधर्मकमेवासौ गृह्णातीत्येवमभिधानं, 'परिहरिय'त्ति परिवृत्य, निक्षिप्येत्यर्थः क्व ? - 'कण्ठे' गले, स ह्यनिक्षिप्तोपकरण इति खमुपधिमुपादायैव भ्राम्यति, अत्र कण्ठैक| पार्श्वः कण्ठशब्द इति कण्ठे परिवृत्त्येत्युच्यत इति सूत्रद्वयार्थः ॥ इत्थं दूरादागच्छन्नुक्तः, सन्निकृष्टं चैनं किमूचुरित्याहकरे तुमं इय असणिजे ?, काए व आसा इहमागओऽसि ? । ओमचेलगा पंसुपिसायभूया, गच्छ क्खलाहि किमिहं ठिओऽसि ? ॥ ७ ॥ कतरस्त्वं, पाठान्तरश्च - को रे त्वम्, अधिक्षेपे रेशब्दः 'इती' त्येवमदर्शनी यो- द्रष्टुमन है:, 'कया वा' किंरूपया वा ?, 'आसा इहमागओऽसि 'चि 'अच सन्धिलोपौ बहुल' मितिवचनादेकारलोपो, मकारश्चागमिकः, तत आशयावाञ्छया 'इह' अस्मिन्यज्ञपट्टके आगतः - प्राप्तोऽसि - भवसि, अवमचेलकः पांसुपिशाचभूत इति च प्राग्वत्, पुनरनयोरुपादानमत्यन्ताधिक्षेपदर्शनार्थ, गच्छ-प्रत्रज, प्रक्रमादितो यज्ञवाटकात्, 'खलाहि 'त्ति देशीपदमपसरेत्यस्यार्थे | Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy