SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बहुश्रुतपू. जाध्ययनं. बृहद्वृत्तिः ॥३५२॥ TAASALAMOMSANCES सलिला-नदी, सागरं-समुद्रं गच्छतीति सागरङ्गमा-समुद्रपातिनीत्यर्थः, न तु क्षुद्रनदीवदपान्तराल एव विशीयते, 'शीता' शीतानाम्नी, नीलवान्-मेरोरुत्तरस्यां दिशि वर्षधरपर्वतस्ततः प्रभवति पाठान्तरतः प्रवहति वानीलवत्प्रभवा नीलवत्प्रवहा वा, ‘एवं' शीतानदीवद्भवति बहुश्रुतः, असावपि हि सरितामिवान्यसाधूनामशेषश्रुतज्ञानिनां वा । मध्ये प्रधानो विमलजलकल्पश्रुतज्ञानान्वितश्च, तथा सागरमिव मुक्तिमेवासौ गच्छति, तदुचितानुष्ठान एवास्य त्वात्, न ह्यन्यदर्शनिनामिव देवादिभव एवास्य विवेकिनो वाञ्छा, तथा च कथमस्य तेषामिव प्रायोऽपान्तलावस्थानं ?, नीलवत्तुल्याच उच्छ्रितोच्छ्रितमहाकुलादेवास्य प्रसूतिः, कथमिवान्यथैवंविधयोग्यतासम्भव इति सूत्रार्थः ॥ किञ्च जहा से नगाण पवरे, सुमहं मंदरे गिरी। नाणोसहीपज्जलिए, एवं हवइ बहुस्सुए ॥२९॥ व्याख्या-यथा स 'नगानां' पर्वतानां मध्ये 'प्रवरः' अतिप्रधानः 'सुमहान्' अतिशयगुरुरत्युच इतियावत्, 'मन्दरः' मन्दराभिधानः, कः पुनरसौ ? इत्याह-गिरिः, किमुक्तं भवति ?-मेरुपर्वतः, 'नानौषधिभिः' अनेकविधविशिष्टमाहात्म्यवनस्पतिविशेषरूपाभिः प्रकर्षण ज्वलितो-दीप्तः नानौषधिप्रज्वलितः, ता ह्यतिशायिन्यः प्रज्वलन्त्य एवासत इति तद्योगादसावपि प्रज्वलित इत्युक्तः, यद्वा-प्रज्वलिता नानौषधयोऽस्मिन्निति प्रज्वलितनानाषधिः, प्रज्वलितशब्दस्य तु परनिपातः प्राग्वत्, ‘एवम्' इति मन्दरवत् भवति बहुश्रुतः, श्रुतमाहात्म्येन बसावत्यन्त ॥३५२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy